This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
दृष्ट्वा व्योम निरास्पदं सचकितव्याघूर्णमानेक्षणा
 

न स्थातुं न च वा ततोऽक्तरितुं प्रागल्भ्यमाबिभ्रते ॥ १५ ॥

 
मन्दानिलव्यतिकरच्युतपल्लवेषु

मन्दारमूललवलीगृ'हमण्डपेषु ।

पुष्पाणि वेणिवलयेषु गलन्ति तस्यां
 

 
साह्यं वहन्ति सुरवास कसज्जिकानाम् ॥ १६ ॥
 

 

 

 
66
 

 
यस्य तत्तथाभूते विमाने, स्थिताः वर्तमानाः, सुकृतिनः पुण्यवन्तः । सुकृती

पुण्यवान् धन्यः" इत्यमरः । निरास्पदं निरधिष्ठानं व्योम दृष्टा । सचकित-

व्याघूर्णमानेक्षणाः, चकितानि भीतानि, अत एव व्याघूर्णमानानि भ्रमणस्वभावानि,

यानीक्षणानि, तैस्सह वर्तन्त इति तथाभूताः सन्तः, स्थातुं विमाने स्थितिं कर्तुं,

प्रागल्भ्यं नैपुण्यं, नाबिभ्रते न दघते । ततो विमानादवतरितुमवरोढुं च वा

प्रागल्भ्यं प्रौढत्वं, नाबिभ्रते न दधत इत्यर्थः । सत्कर्मानुष्ठानजन्यापूर्वं तु याव-

तफलानुभवभावित्वेन कर्मणि कृते सति विमुक्तेषु यावत्फलमन्तरा दुर्निरोधमिति

भाव: । सात्त्विकराजसतामसभेदेन त्रिधा विभज्य सात्त्विक सुखस्वरूपमुक्तं

भगवता । "यत्तदग्रे विषमिव परिणामेऽमृतोपमम् । तत्सुखं सात्त्विकं प्रोक्तमात्म-

बुद्धिप्रसादजम् ॥'' (भ.गी. 18-37 ) इति । अतः स्वर्गसुखस्य पूर्वमीमांसार्थकाण्ड -

साध्यनैर्मल्यवद्देवमाहात्म्यबुद्धिपूर्वकसत्कर्मायत्तत्वेन सात्त्विकत्वात् सुखप्राप्तेः पूर्व

विमानवर्तिनामपि किञ्चिद्भयकम्पादिक भवेदिति हृदयम् । स्वर्वासिनीनां वासक-

सज्जिकानां प्रयत्नं विनापि मण्डनादिकं सिध्यतीत्याह ॥ मन्देति ॥ यस्यां मन्दा-

निल: मन्दपवनः, तस्य व्यतिकरः सम्बन्धः, तेन च्युताः स्खलिताः पल्लवाः येषां

तेषु । "पल्लवोऽस्त्री किसलयम्" इत्यमरः । मन्दारस्य कल्पकवृक्षविशेषस्य, मूले

मूलतले या लवलीलता तत्पिहितेषु मण्डपेषु जनाश्रयभूमिषु । "मडि' भूषायाम्" इति

धातोर्भावे घञ् । मण्डं मण्डनं पिबन्ति पान्तीति वा तेप्वित्यर्थः । "मण्डपोऽस्त्री

जनाश्रयः" इत्यमरः । स्थितानां वासकसज्जिकानाम् । "प्रियागमनवेळायां मण्डयन्ती
 

 
a. गृहपदं न व्याख्यातं व्याख्यात्रा ।
 

 
1.
 

 
अयं धातुः भ्वादौ "आटवर्गीयान्तसमाप्तेः परस्मैप दिनः" इत्यारभ्य पठितेषु

सप्ताशीतिधातुषु षट्त्रिंशत्तमः ॥ "वडि विभाजने, मडि च " – इत्यन्यः भ्वादौ, "मडि-

भूषायां हर्षे च " इति चुरादौ चान्यः पठितः ॥
 

 
-