This page has been fully proofread twice.

यैषाऽविप्रतिपन्नसौख्यलहरीसम्पातसम्पादिनी
तत्सौन्दर्यविवेचने कवयतां मौनं क्षमं ह्रीमताम् ॥ १४ ॥
 
आनीता वसुधातलात्सुकृतिनस्तस्यां हरेः शासनात्
उन्मीलन्मणिकिङ्किणीकलकलस्वाने विमाने स्थिताः।
 
[commentary]
 
मिति ॥ दुःखानां एकविंशतिसङ्ख्याकानाम् क्षतिः ध्वंसः मोक्ष इति काणादाः । अबोधस्याविद्याया हतिः ध्वंसः मोक्ष इति वेदान्तिनः । "अविद्यास्तमयो मोक्षः स च बन्ध उदाहृतः" इत्युक्तेः । आनन्दविष्फूर्तिरानन्दाविर्भावः मोक्ष इति केचित् । इति एवंप्रकारेण । अन्तर्वाणयो विद्वांसः । "अन्तर्वाणिस्तु शास्त्रवित्" इत्यमरः । तेषां विकल्पाः विविधकल्पनाः, तेषां जालैः निकरैः, जटिलात् मोक्षादपि ज्यायसी श्रेष्ठा । अविप्रतिपन्नं कुकल्पनानास्पदं यत्सौख्यं स्वर्गसौख्यं तस्य लहरी प्रवाहः, परम्परेति यावत् । तस्याः सम्पातः सम्पतनं, तत्सम्पादिनी तज्जनिकेत्यर्थः । यैषा अमरावती । तस्या अमरावत्या यत्सौन्दर्यं रामणीयकं, तद्विवेचने वर्णने विषये, ह्रीमतां लज्जावताम् । भूम्नि [^१]मतुप् । कवयतां कवीनाम् । मौनं तूष्णींभावः । क्षमं अर्हम् । मोक्षातिशायित्वादमरावत्याः तद्वर्णनं दुश्शकमिति भावः । स्वर्गसुखस्य सात्त्विक सुखत्वोपपादनाय विमानचारिणां पथिकानां स्वर्गसुखप्राप्तेः पूर्वकालिकं भयादिकं विषमिव दुस्सहमित्याह ॥ आनीता इति ॥ तस्याममरावत्याम् । हरेरिन्द्रस्य । यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकविभेकेषु हरिर्ना कपिले त्रिषु ॥" इत्यमरः । शासनात् आज्ञावशात्, वसुधातलादानीताः । किङ्करैरिति शेषः । उन्मीलन् समुद्भवन् । मणिखचिताः याः किङ्किण्यः याः क्षुद्रघण्टिकाः । "किङ्किणी क्षुद्रघण्टिका" इत्यमरः । तासां यः कलकलः स्वानः कलकलेति ध्वनिः । कोलाहलः कलकलः इत्यमरः । स
 
[^१] "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥"-- "तदस्यास्त्यस्मिन्निति मतुप् (पा. सू. ५.२.९४)" इति सूत्रगतेतिशब्देन लब्धविषयविशेषनिर्देशकोऽयं श्लोकः । अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमादिषु विषयेषु षट्सु भवन्तीति वार्तिकार्थः । भूम-बहुत्वं, तच्चापेक्षिकम् । गोमान्, यवमान् । निन्दायां - ककुदावर्तिनी कन्या । प्रशंसायां - रूपवान् । नित्ययोगे - क्षीरिणो वृक्षाः । अतिशायने - उदरिणी कन्या । संसर्गे - दण्डी । इह दण्डपुरुषयोः संयोगे सत्यपि, दण्डी पुरुषः इतिवत्, पुरुषी दण्डः इति न प्रयुज्यते, वृत्तिनियामकस्य विलक्षणसंबन्धस्याभावात् । संयोगे समानेऽपि प्रतीतिबलात् वैलक्षण्यं कल्प्यते ॥