This page has not been fully proofread.

प्रथमाश्वासः
 
यैषाऽविप्रतिपन्नसौख्यलहरीसम्पातसम्पादिनी
 
तत्सौन्दर्यविवेचने कवयतां मौनं क्षमं हीमताम् ॥ १४ ॥
आनीता वसुधातला त्सुकृतिनस्तस्यां हरेः शासनात्
उन्मीलन्मणिकिङ्किणीकलकलवाने
 
विमाने स्थिताः।
 
19
 
मिति ॥ दुःखानां एकविंशतिसङ्ख्याकानाम् क्षतिः ध्वंस: मोक्ष इति काणादाः ।
अबोधस्याविद्याया हति: ध्वंस: मोक्ष इति वेदान्तिनः । "अविद्यास्तमयो मोक्षः
स च बन्ध उदाहृतः" इत्युक्तेः । आनन्द विष्फूर्तिरानन्दा विर्भाव: मोक्ष इति
केचित् । इति एवंप्रकारेण । अन्तर्वाणयो विद्वांसः । "अन्तर्वाणिस्तु शास्त्रवित् "
इत्यमरः । तेषां विकल्पाः विविधकल्पनाः, तेषां जालैः निकरै:, जटिलात् मोक्षादपि
ज्यायसी श्रेष्ठा । अविप्रतिपन्नं कुकल्पनानास्पदं यत्सौख्यं स्वर्गसौख्यं तस्य लहरी
प्रवाह:, परम्परेति यावत् । तस्याः सम्पात: सम्पतनं, तत्सम्पादिनी तज्जनि-
केत्यर्थः । यैषा अमरावती । तस्या अमरावत्या यत्सौन्दर्यं रामणीयकं, तद्विवेचने
वर्णने विषये, ह्रीमतां लज्जावताम् । भून्नि 'मतुप् । कवयतां कवीनाम् । मौनं
तूष्णींभाव: । क्षमं अर्हम् । मोक्षातिशायित्वादमरावत्याः तद्वर्णनं दुश्शकमिति
भाव: । स्वर्गसुखस्य सात्त्विक सुखत्वोपपादनाय विमानचारिणां पथिकानां स्वर्ग-
सुखप्राप्ते : पूर्वकालिकं भयादिकं विषमिव दुस्सहमित्याह ॥ आनीता इति ॥
तस्याममरावत्याम् । हरेरिन्द्रस्य । यम/निलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु ।
 
"
 
शुकाहिक विभेकेषु हरिर्ना कपिले त्रिषु ॥ " इत्यमरः । शासनात् आज्ञावशात्,
वसुधातलादानीताः । किङ्करैरिति शेषः । उन्मीलन् समुद्भवन् । मणिखचिताः याः
किङ्किण्यः याः क्षुद्रघण्टिकाः । " किङ्किणी क्षुद्रघण्टिका " इत्यमरः । तासां यः
कलकल: स्वानः कलकलेति ध्वनिः । कोलाहल:
5: कलकल: इत्यमरः । स
 
99
 
1. "भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतु-
बादयः ॥ '—" तदस्यास्त्यस्मिन्निति मतुप् (पा. सू. 5-2-94 ) " इति सूत्रगतेतिशब्देन
लब्ध विषय विशेष निर्देश कोऽयं श्लोकः । अस्तिविवक्षायां ये मतुबादयो विधीयन्ते ते भूमा-
दिषु विषयेषु षट्सु भवन्तीति वार्तिकार्थः । भूम-बहुत्वं, तच्चापेक्षिकम् । गोमान्, यवमान् ।
निन्दायां - ककुदावर्तिनी कन्या । प्रशंसायां- रूपवान् । नित्ययोगे - क्षीरिणो वृक्षाः ।
अतिशायने - उदरिणी कन्या । संसर्गे - दण्डी । इह दण्डपुरुषयोः संयोगे सत्यपि, दण्डी पुरुषः
इतिवत्, पुरुषी दण्डः इति न प्रयुज्यते, वृत्तिनियामकस्य विलक्षण संबन्धस्याभावात् ।
संयोगे समानेऽपि प्रतीतिबलात् वैलक्षण्यं कल्प्यते ॥
 
-
 
N.:V.– 3