This page has been fully proofread twice.

प्रसजति महोत्सवे वा प्रचलति रथ्यासु तत्र शक्रे वा ।
निम्नानि पूरयन्ते पवनमये ताळवृन्तपवनेन ॥ १३ ॥
 
किं बहुना ।
 
दुःखानां क्षतिरित्यबोधहतिरित्यानन्दविस्फूर्तिरि-
त्यन्तर्वाणिविकल्पजालजटिलान्मोक्षादपि ज्यायसी ।
 
[commentary]
 
कोपसेवनमपि ताम्बूलचर्वणमपि । अयं निशीथात्परः कालः समयः अनुचितः भक्षणानर्ह इति विगायत्सु निन्दत्सु । आनन्दमूर्च्छा रत्यनन्तरभाविनी स्वापावस्थाकल्पा काचन अवस्था तस्याः अवसरे समय एव, लिङ्ग्यन्ते ज्ञायन्त इति लिङ्गानि । गत्यर्थानां ज्ञानार्थकत्वान्मन्त्राणां लिङ्गानि अर्थान्, निभृतं निश्चलं यथातथा, अनुसन्दधानेषु ध्यायिषु सत्सु । परवशः अस्वाधीनः, रतान्ते या निद्रा
तस्याः अवसरः समयः तस्मिन्नेव, यावत्सन्निपातः संश्लेषः अथवा सन्निपातः रेतसः पतनं तावत्कालं सहशय्या सहशयनमिति पर्यङ्कशायिकां पर्यङ्कशयनं परिहरत्सु परित्यजत्सु सत्सु । द्वितीयसुरतावसर एव द्वितीयं यत्सुरतं रतिः तत्समय एव, मन्दाकिनीगमनाय, स्नानार्थमिति शेषः । कमण्डलुं कुण्डीम् । ’अस्त्री कमण्डलुः कुण्डी' इत्यमरः । मे मह्यं देहीति त्वरमाणेषु अन्विष्यत्सु
सत्सु । रम्भादिमेनकान्ताः रम्भाप्रमुखमेनकाचरमाः देववारकान्ता देववारस्त्रियः । विहसन्ति केवलं छान्दसा इति हेतोः । विषीदन्ति क्रीडाया अनिर्वर्तका इति खिद्यन्ति । विलज्जन्ते क्रीडायां त्यक्तवस्त्रा इति । विस्मयन्ते विषयसन्निधावपि विरक्ता इति । दिव्यविषयाः विमोहका अपि निगृहीतचित्तेषु उचितज्ञेषु फल्गव इति भावः । ननु भूमिसम्बन्घर धरहितायाममरावत्यां रथ्यासमीकरणादिकं कथं सम्भवतीति चेदत आह ॥ प्रसजतीति ॥ पवनमये पवनप्रचुरे । वायुबद्ध इति यावत् । तत्र अमरावत्यां, महोत्सवे जयन्तिवर्धन्त्यादिके, अथवा असुरनिरसनरूपे प्रसजति प्रसक्ते सति । अथवा शक्रे देवेन्द्रे, रथ्यासु वीथीषु, प्रचलति निर्गच्छति सति । ताळवृन्तानां पवनेन वायुना, निम्नानि निम्नस्थलानि, पूरयन्ते समं कुर्वन्ति । तत्र वसतां देवानां रथ्यादिकरणं सुलभोपायसाध्यत्वादतिसुकरमिति भावः । नन्वमरावत्यां निरतिशयसौन्दर्यमस्ति यदि, द्वारकादेस्सौन्दर्यं माघादिभिरिव आधुनिकैः कविभिः कुतो न वर्ण्यत इति चेन्मोक्षादपि ज्यायस्त्वादित्याह ॥ दुःखाना-