This page has been fully proofread twice.

तत्काव्यम् । अथवा तावत्तत् सकलमित्यर्थः । वक्ष्यति अभिधास्यति अथवा न वक्ष्यति तस्य काव्यस्योपरि काव्य एवेत्यर्थः । समस्तः सकलः भरः भारः न्यस्तः समर्पितः ।
 
इति श्रीमद्भारद्वाजवेल्लालमहादेवसूरिविरचिते नीलकण्ठविजयव्याख्याने
विबुधानन्दाख्याने पञ्चमाश्वासविवृतिः ॥
 
मङ्गलम्
 
कविर्लौकिकवैदिकव्याकरणस्य पूर्वोत्तरमीमांसायाः साहित्यालंकारस्य च वेत्ता, परमशिवभक्तः इत्येतत् तत्र तत्र ग्रन्थपरिशीलने सम्यक् ज्ञायेत, नायमत्युक्तिश्लाघात्मकः इति सुधियो विदांकुर्वन्तु इति शिवम् ॥
 
नीलकण्ठं कविं देवं, शक्तिं नारायणीं सतीम् ।
ध्यात्वाऽर्पयति टुप्टीकां बालको मातृपादयोः ॥
शिवावाव हरे देवि, नारायणि नमोऽस्तु वः ॥
नमो नमो नमो देवाः त्रिभिर्वाग्देहमानसैः ॥
 
॥ इति शिवम् ॥