This page has been fully proofread twice.

वाचं व्याकुरुते चिरन्तनगिरं मीमांसते चोभयीं
पान्थः काव्यपथेषु पादकमले सक्तः पुरारेरिति ।
मामेतत्कथयिष्यतीति रचितं काव्यं मया तत् पुनः
तावद्वक्ष्यति वा न वा तदुपरि न्यस्तः समस्तो भरः ॥ ६३ ॥
 
शिवार्पणम् ॥
 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्य चतुरधिकशत-
प्रबन्धनिर्वाहकश्रीमन्महाव्रतयाजिश्रीमदप्पय्यदीक्षितसोदर्यश्रीमदाच्चानू-
दीक्षितपौत्रेण श्रीनारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन
श्रीनीलकण्ठदीक्षितेन विरचिते श्रीनीलकण्ठविजये
चम्पुकाव्ये पञ्चम आश्वासः ॥
 
समाप्तश्चायं ग्रन्थः ॥
 
[commentary]
 
शक्तिं सामर्थ्यरूपपरदेवतामित्यर्थः । ध्यायन्तः ध्यानं कुर्वन्तः स्मरन्त इति वाऽर्थः । सुराणां गुरुराचार्यस्तस्याज्ञां निदेशं मूर्धा शिरः तस्मिन् बिभ्रतः निदधानाः सन्तः मुनीन् नारदादीन् आनन्दयन्तः सन्तोषयन्तः अव्याहतं अप्रच्युतं स्वाराज्यं स्वर्गसाम्राज्यं स्वच्छन्दं स्वेच्छं यथा तथा यथेच्छमिति वाऽर्थः । बुभुजिरे अनुबभूवुरित्यर्थः । 'भुज पालनाभ्यवहारयोः' इति धातोः कर्तरि लिट् ॥ वाचमिति ॥ कविरयं वाचं व्याकुरुते प्रकृतिप्रत्ययादिज्ञानपूर्वकमभिवदतीत्यर्थः । उभौ अवयवौ यस्याः सा तथाभूतां चिरन्तनगिरं कर्मब्रह्मकाण्डात्मकवेदवाचमित्यर्थः । मीमांसते विचारयतीत्यर्थः । पूर्वमीमांसायामुत्तरमीमांसायां च अध्वरह्मणोर्विचारकुशल इति भावः । काव्यस्य सगुणालङ्कारशास्त्रस्य पन्थानः मार्गाः तेषु पान्थः नित्यसञ्चारीत्यर्थः । पुरारेस्त्रिपुरान्तकस्य परशिवस्य पादकमले पादारविन्दे सक्तः आसक्तः भक्तः इति वाऽर्थः । इत्येवंविधं मां कथयिष्यति व्याकरणमीमांसादिशास्त्रज्ञं शिवभक्तमित्येवं वदिष्यतीत्यर्थः । इति मत्वा मया यदेतत्काव्यं रचितं निर्मितमित्यर्थः ।