This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
-वाचे व्याकुरुते चिरन्तनगिरं मीमांसते चोभय
पान्थः काव्यपथेषु पादकमले सक्तः पुरारेरिति ।
मामेतत्कथयिष्यतीति रचित काव्यं मया तत् पुनः
तावद्वक्ष्यति वा न वा तदुपरि न्यस्तः समस्तो भरः ॥६३॥
शिवार्पणम् ॥३
 
इति श्रीमद्भरद्वाजकुलजलधिकौस्तुभश्रीकण्ठमतप्रतिष्ठापनाचार्य चतुरधिकशत-
प्रबन्धनिर्वाहक श्रीमन्महावतयाजिं श्रीमदप्पय्यदीक्षितसोदर्य श्रीमदाच्चान्-
दीक्षितपौत्रेण श्रीनारायणदीक्षितात्मजेन श्रीभूमिदेवीगर्भसंभवेन
श्रीनीलकण्ठदीक्षितेन 'विरचिते श्रीनीलकण्ठविजये
 
चम्पुकाव्ये पञ्चम आश्वासः ॥
समाप्तश्चार्य ग्रन्थः ॥
 
0:
 
6:
 
शक्ति सामर्थ्यरूपपरदेवता मित्यर्थः। घ्यायन्तः ध्यानं कुर्वन्तः स्मरन्त इति
वाऽर्थः । सुराणां गुरुराचार्यस्तस्याज्ञां निदेशं मूर्धा शिरः तस्मिन् बिभ्रतः
निदधाना: सन्त: मुनीन् नारदादीन् आनन्दयन्तः सन्तोषयन्तः अव्याहतं
अप्रच्युत स्वाराज्यं स्वर्गसाम्राज्यं स्वच्छन्दं स्वेच्छं यथा तथा यथेच्छ मिति
वाऽर्थः । बुभुजिरे अनुबभूवुरित्यर्थः । 'भुज पालनाभ्यवहारयोः' इति धातोः
कर्तरि लिटू ॥ वाचमिति ॥ कविरयं वाचं व्याकुरुते प्रकृतिप्रत्ययादिज्ञान-
पूर्वकमभिवदतीत्यर्थः । उभौ अवयवौ यस्याः सा तथाभूतां चिरन्तनगिरं
कर्मब्रह्म काण्डात्मक वेदवाच मित्यर्थः 1 मीमांसते विचारयतीत्यर्थः । पूर्वमीमां-
सायामुत्तरमीमांसायां च अध्वरह्मणोर्विचारकुशल इति भावः ।
सगुणालङ्कारशास्त्रस्य पन्थानमार्गा: तेषु पान्थः नित्यसञ्चारीत्यर्थः ।
पुरारेस्त्रिपुरान्तकस्य परशिवस्य पादकमले पादारविन्दे सक्तः आसक्त: भक्त:
इति वाऽर्थः । इत्येवंविषं मां कथयिष्यति व्याकरणमीमांसादिशास्त्रज्ञं शिवभक्त-
मित्येवं वदिष्यतीत्यर्थः। इति मत्वा मया यदेतत्काव्यं रचितं निर्मितमित्यर्थः ।
 
5
 
काव्यस्य