This page has been fully proofread twice.

सज्जीकृताम्, परित्यक्तामसुरैः, प्रसाधितां विश्वकर्मणा, परितोऽप्यभिनवामिव सर्वसौभाग्यवतीममरावतीमासाद्य, प्रणम्य वाचस्पतिम्, प्रसाद्य यथोचितं महर्षिगणान्, परिरभ्य परस्परम्, प्रतिष्ठाप्य सिंहासने शतक्रतुम्, आदिष्टानि तेन स्वानि स्वानि स्थानानि, यथापुरममराः
परिपालयाञ्चक्रिरे ।
 
अर्चन्तस्तरुणेन्दुचूडमसकृत् सङ्कीर्तयन्तो हरिं
ध्यायन्तस्त्रिजगद्विमोहजननीं शक्तिं परां [‍^‍१]शाम्भवीम् ।
आज्ञां मूर्धनि बिभ्रतः सुरगुरोरानन्दयन्तो मुनीन्
स्वच्छन्दास्त्रिदिवौकसो बुभुजिरे खास्वाराज्यमव्याहतम् ॥ ६२ ॥
 
[commentary]
 
त्पन्नां पारमेश्वरीं ईश्वरसम्बन्धिनीं गिरमाकर्ण्य श्रुत्वा परमानन्देन निर्भराः सान्द्रास्सन्तः प्राक्प्रस्थापितेन प्रेषितेन गुरुणा वाचस्पतिना सज्जीकृतां वासार्हीकृतामित्यर्थः । असुरैः तत्रत्यदानवैः परित्यक्तां विसृष्टां विश्वकर्मणा देवशिल्पिना परितोऽपि प्रसाधितां अलङ्कृतां अत एव अभिनवां नूतनरचितामिव स्थितां सर्वेः प्रकारैरपि सौभाग्यवतीं कामनीयकशालिनीमित्यर्थः । तथाभूतां अमरावतीं देवपुरीमासाद्य प्राप्य वाचस्पतिं गुरुं प्रणम्य यथोचितं यथार्हणं महर्षीणां गणान् सङ्घान् प्रसाद्य अनुग्रहीतुम् कृत्वेत्यर्थः । परस्परं परिरभ्य आलिङ्ग्य शतक्रतुं देवेन्द्रं सिंहासने प्रतिष्ठाप्य स्थापयित्वेत्यर्थः । तेन देवेन्द्रेण आदिष्टाः सन्दिष्टाः सन्तः यथापुरं पुरेव स्वस्वानि स्वकीयस्वकीयानि स्थानानि पदानि परिपालयाञ्चक्रिरे परिपालयामासुरित्यर्थः । तथा चोक्तं देवीभागवते 'महादेवेन चाज्ञप्ता गुरुणा च सुशिक्षिताः । दिवं प्राप्य यथापूर्वमन्वशासन् त्रिविष्टपम्' इति ॥ अर्चन्त इति ॥ त्रिदिवौकसः इन्द्रादिदेवाः तरुणेन्दुः बालचन्द्रः चूडायां यस्य स तथाभूतं परमेश्वरं अर्चन्तः पूजयन्तः असकृन्मुहुर्मुहुः हरिं संकीर्तयन्तः नामोच्चारणादिकं कुर्वन्त इत्यर्थः । त्रिजगतः त्रिभुवनस्य
विमोहो व्यामोहस्तस्य जननीमुत्पादिकां शाम्भवीं शम्भुसम्बन्धिनीं परां उत्कृष्टां
 
[^१] हरिहरपराशक्तिरूपास्तिस्रो देवताः इति निर्धारयति ॥