This page has been fully proofread once and needs a second look.

पञ्चमाश्वासः
 
३८९
 
सज्जीकृताम्, परित्यक्तामसुरैः, प्रसाधितां विश्वकर्मणा, परितोऽप्य-
भिनवामिव सर्वसौभाग्यवती ममरावतीमासाद्य, प्रणम्य वाचस्पतिम्,
प्रसाद्य यथोचितं महर्षिगणान्, परिरभ्य परस्परम्, प्रतिष्ठाप्य सिंहासने
शतक्रतुम्, दिष्टांटानि तेन स्वानि स्वानि स्थानानि, यथापुरममराः

परिपालयाञ्चक्रिरे ।
 
C
 

 
अर्चन्तस्तरुणेन्दुचूडमसकृत् सङ्कीर्तयन्तो हरिं
 

ध्यायन्त स्त्रिजगद्विमोहजननीं शक्तितिं परां '[‍^‍१]शाम्भवीम् ।

आज्ञाञां मूर्धनि बिभ्रतः सुरगुरोरानन्दयन्तो मुनीन्

स्वच्छन्दा स्त्रि स्त्रिदिवौकसो बुभुजिरे खाराज्यमव्याहतम् ॥ ६२
 

 
[commentary]
 
त्पन्नां पारमेश्वरीं ईश्वरसम्बन्धिनीं गिरमाकर्ण्य श्रुत्वा परमानन्देन निर्भराः
सान्द्रास्सन्तः प्राक्प्रस्थापितेन प्रेषितेन गुरुणा वाचस्पतिना सज्जीकृतां वासार्हीकृता-
मित्यर्थः । असुरैः तत्रत्यदानवैः परित्यक्तां विसृष्टां विश्वकर्मणा देवशिल्पिना
परितोऽपि प्रसाधितां अलङ्कृतां अत एव अभिनवां नूतनरचितामिव स्थितां
सर्वे:
सर्वेः प्रकारैरपि सौभाग्यवतीं कामनीयकशालिनीमित्यर्थः । तथाभूतां अमरा-
वती
वतीं देवपुरीमासाद्य प्राप्य वाचस्पतिं गुरुं प्रणम्य यथोचितं यथार्हणं महर्षी-
णां गणान् सङ्घान् प्रसाद्य अनुग्रहीतुम् कृत्वेत्यर्थः । परस्परं परिरभ्य आ-
लिङ्ग्य शतक्रतुं देवेन्द्रं सिंहासने प्रतिष्ठाप्य स्थापयित्वेत्यर्थः । तेन देवेन्द्रेण
आं
दिष्टाः सन्दिष्टाः सन्तः यथापुरं पुरेव स्वस्वानि स्वकीय स्वकीयानि स्थानानि
पदानि 'परिपालयाञ्चक्रिरे परिप लयामासुरित्यर्थः । तथा चोक्तं देवीभागवते
'महादेवेनं चाज्ञप्ता गुरुणा च सुशिक्षिताः । दिवं प्राप्य यथापूर्वमन्वशासन्
त्रिविष्टपम्' इति ॥ अर्चन्त इति ॥ त्रिदिवौकसः इन्द्रादिदेवाः तरुणेन्दुः बाल-
चन्द्रः चूडायां यस्य स तथाभूतं परमेश्वरं अर्चन्तः पूजयन्तः असकृन्मुहुर्मुहुः
 
.
 
-
 
हरिं संकीर्तयन्तः नामोच्चारणादिकं कुर्वन्त इत्यर्थः । त्रिजगतः त्रिभुवनस्य

विमोहो' व्यामोहस्तस्य जननीमुत्पादिकां शाम्भवीं शम्भुसम्बन्धिनीं परां उत्कृष्टां
 
। २

 
[^१
] हरिहरपराशक्तिरूपास्तिकोस्रो देवताः इति निर्धारियति ॥