This page has been fully proofread twice.

देवानामपि[‌^१] दुर्लभं पदमिदं लब्धं मयोपायतो
द्वित्रैर्बिल्वदळैः प्रतार्य शिवमित्येवं जनो मन्यते ।
मद्भक्ताङ्घ्रिरजस्स्पृशोऽपि सुलभं क्षुद्रं पदं वेधसो
दत्त्वा सेवक एव वञ्चित इति स्वामिन् भवान्मन्यते ॥' ६१ ॥
 
इति स्तुवन्तो विबुधाः, 'प्रसन्नास्स्मो युष्मासु परिपालयत यथापुरं स्वाराज्यम्' इति प्रसन्नगम्भीरामाकर्ण्य पारमेश्वरीं गिरमाकाशसम्भवाम्, परमानन्दनिर्भराः प्राक्प्रस्थापितेन गुरुणा
 
[commentary]
 
अच्युतः श्रीहरिः पुष्पवतोः सूर्यचन्द्ररूपयोरित्यर्थः । 'एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ' इत्यमरः । अक्ष्णोः नेत्रयोर्मध्ये त्वेकमक्षि हे ईश ते तव पदे अर्पयन् समर्पयन् सन् पुण्डरीकस्य आभा कान्तिर्ययोस्ते तथाभूते चक्षुषी नेत्रे अलभत अभजतेत्यर्थः । तथा चोक्तं देवीभागवते 'प्रायशश्शम्भुभक्तेषु यतस्त्वं प्रोच्यसेऽग्रणीः । एकोनेऽब्जसहस्रे स्वं ददौ नेत्राम्बुजं भवान्' इति विष्णुवीरभद्रसंवादे ॥ देवानामिति ॥ हे स्वामिन् परमेश्वर जनः भक्तलोकः द्वे वा त्रीणि वा द्वित्राणि तथाभूतैः बिल्वदळैः पूजयेति शेषः । शिवं प्रतार्य वञ्चयित्वा देवानामिन्द्रादीनां दुर्लभं दुष्प्रापं इदं स्थानं उपायतः अनायासतः लब्धं प्राप्तमिति इत्थं मन्यते अभिजानातीत्यर्थः । मम ये भक्ताः पूजाध्यानादिशीलाः तेषां येऽङ्घ्रयः तेषां यानि रजांसि तानि स्पृशः स्पृष्टवतोऽपि पुनः सुलभं सुखेन प्राप्यं क्षुद्रं तुच्छं वेधसः ब्रह्मणः पदं स्थानं दत्त्वा वितीर्य सेवकः पूजक एव वञ्चितः प्रतारित इति इत्थं भवान्मन्यते त्वं जानासीत्यर्थः । भवन्महिमा वर्णयितुमस्माभिः न शक्य इति भावः । तथा चोक्तं देवीभागवते 'ततो देवा मुदा युक्ता मन्दरं स्थाप्य पूर्ववत् । प्रणिपत्य महादेव वासुकिं तं विसृज्य च ॥' इति ॥ इतीति ॥ इति इत्थं स्तुवन्तो विबुधा देवाः युष्मासु विषये वयं प्रसन्नाः अनुग्रहीतारस्स्मः भवामः यथापुरं पुरेव स्वाराज्यं परिपालयत संरक्षणं कुरुतेत्यर्थः । इति एवंप्रकाराम् । प्रसन्ना अर्थमधुरा च सा गम्भीरा श्राव्या चेति कर्मधारयः । तथाभूतामाकाशसम्भवामाकाशो-
 
[^१] दासपादपतनं महासेवा इति, भगवद्क्तेरपि भागवतभक्तेरुत्कर्षं दर्शयन् कविः, भक्तमनोभावं, देवतामनोभावं च विशदयति ॥