This page has been fully proofread once and needs a second look.

नीदेवानामपि[‌^१] दुर्कण्ठविजये संव्याख्याने
'देवानामपि' दुर्लभ
भं पदमिदं लब्धं मयोपायतो

द्वित्रैर्बिल्वद्ळैः प्रतार्य शिवमित्येवं जनो मन्यते ।

मद्भक्ताङ्घिघ्रिरजस्स्पृशोऽपि सुलभं क्षुद्रं पदं वेधसो
 

दत्त्वा सेवक एव वञ्चित इति स्वामिन् भवान्मन्यते ॥' ६१
 
३८
 

 
इति स्तुवन्तो विबुधाः, 'प्रसन्नास्स्मो युष्मासु परिपा-
लयत यथापुरं स्वाराज्यम्' इति प्रसन्नगम्भीरामाकर्ण्य पारमेश्वरीं
गिरमाकाशसम्भवाम्, परमानन्दनिर्भरा:राः प्राक्प्रस्थापितेन गुरुणा
 
6
 

 
[commentary]
 
अच्युतः श्रीहरिः पुष्पवतोः सूर्यचन्द्ररूपयोरित्यर्थः । 'एकयोक्त्या पुष्पवन्तौ
दिवाकरनिशाकरौ' इत्यमरः । अक्ष्णोः नेत्रयोर्मध्ये त्वेकमक्षि हे ईश ते तव पदे
अर्पयन् समर्पयन् सन् पुण्डरीकस्य आभा कान्तिर्ययोस्ते तथाभूते चक्षुषी नेत्रे
अलभत अभजतेत्यर्थः । तथा चोक्तं देवीभागवते 'प्रायशश्शम्भुभक्तेषु यत-
स्त्वं- प्रोच्यसेऽग्रणीः । एकोनेऽब्जसहसेस्रे स्वं ददौ नेत्राम्बुजं भवान्' इति विष्णु-
वीरभद्रसंवादे ॥ देवानामिति ॥ हे स्वामिन् परमेश्वर जनः भक्तलोक:
कः द्वे वा त्रीणि वा द्वित्राणि तथाभूतैः बिल्वदळैः पूजयेति शेषः । शिवं
प्रतार्य वञ्चयित्वा देवानामिन्द्रादीनां दुर्लभं दुष्पाप्रापं इदं स्थानं उपायत:
तः अनायासत:तः लब्धं प्राप्तमिति इत्थं मन्यते अभिजानातीत्यर्थः । मम ये भक्ताः
पूजाध्याना द्रिदिशीला:लाः तेषां येऽङ्घ्रयः तेषां यानि रजांसि तानि स्पृशः स्पृष्ट-
वतोऽपि पुनः सुलभं सुखेन प्राप्यं क्षुदंद्रं तुच्छं वेधसः ब्रह्मण:णः पदं स्थानं
दत्त्वा वित्तीर्य सेवक:कः पूजक एवं वञ्चितः प्रतारित इति इत्थं भवान्मन्यते त्वं
जानासीत्यर्थः । भवन्महिमा वर्णयितुमस्माभिः न शक्य इति भावः । तथा
चोक्तं देवीभागवते 'ततो देवा मुदा युक्ता मन्दरं स्थाप्य पूर्ववत् । प्रणिपत्य
महादेव वासुकिं तं विसृज्य च ॥' इति ॥ इतीति ॥ इति इत्यंथं स्तुवन्तो विबुधा
देवा:वाः युष्मासु विषये वयं प्रसन्नाः अनुग्रहीतारस्स्मः भवामः यथापुरं पुरेव
स्वाराज्यं परिपालयत संरक्षणं कुरुतेत्यर्थः । इति एवंप्रकाराम् । प्रसन्ना अर्थमधुरा
च सा गम्भीरा श्राव्या चेति कर्मधारयः । तथाभूतामाकाशसम्भवामाकाशो-
4.

 
[^१]
दासवापादपतनं महासेवा इति, भगवद्धक्तेरपि भागवतभक्तेरुत्कर्षं दर्शयन् कविः,
भक्तमनोभावं, देवतामनोभावं च विशदयति ॥