This page has not been fully proofread.

नीलकण्ठविजये संव्याख्याने
'देवानामपि' दुर्लभ पदमिदं लब्धं मयोपायतो
द्वित्रैबिल्वद्ळैः प्रतार्य शिवमित्येव जनो मन्यते ।
मद्भक्ताङ्घिरजस्स्पृशोऽपि सुलभं क्षुद्रं पदं वेधसो
 
दत्त्वा सेवक एव वञ्चित इति स्वामिन् भवान्मन्यते ॥ ६१॥
 
३८
 
इति स्तुवन्तो विबुधाः, प्रसन्नास्स्मो युष्मासु परिपा-
लयत यथापुरं स्वाराज्यम्' इति प्रसन्नगम्भीरामाकर्ण्य पारमेश्वरीं
गिरमाकाशसम्भवाम्, परमानन्दनिर्भरा: प्राक्प्रस्थापितेन गुरुणा
 
6
 
अच्युतः श्रीहरिः पुष्पवतोः सूर्यचन्द्ररूपयोरित्यर्थः । 'एकयोक्त्या पुष्पवन्तौ
दिवाकरनिशाकरौ' इत्यमरः । अक्ष्णोः नेत्रयोर्मध्ये त्वेकमक्षि हे ईश ते तव पदे
अर्पयन् समर्पयन् सन् पुण्डरीकस्य आभा कान्तिर्ययोस्ते तथाभूते चक्षुषी नेत्रे
अलभत अभजतेत्यर्थः । तथा चोक्तं देवीभागवते 'प्रायशश्शम्भुभक्तेषु यत-
स्त्वं-प्रोच्यसेऽग्रणीः । एकोनेऽब्जसहसे स्वं ददौ नेत्राम्बुजं भवान्' इति विष्णु-
वीरभद्रसंवादे ॥ देवानामिति ॥ हे स्वामिन् परमेश्वर जनः भक्तलोक:
द्वे वा त्रीणि वा द्वित्राणि तथाभूतैः बिखदळैः पूजयेति शेषः । शिवं
प्रतार्य वञ्चयित्वा देवानामिन्द्रादीनां दुर्लभं दुष्पापं इदं स्थानं उपायत:
अनायासत: लब्धं प्राप्तमिति इत्थं मन्यते अभिजानातीत्यर्थः । मम ये भक्ताः
पूजाध्याना द्रिशीला: तेषां येऽयः तेषां यानि रजांसि तानि स्पृशः स्पृष्ट-
वतोऽपि पुनः सुलभं सुखेन प्राप्यं क्षुदं तुच्छं वेधसः ब्रह्मण: पदं स्थानं
दत्त्वा वित्तीय सेवक: पूजक एवं वञ्चितः प्रतारित इति इत्थं भवान्मन्यते त्वं
जानासीत्यर्थः । भवन्महिमा वर्णयितुमस्माभिः न शक्य इति भावः । तथा
चोक्तं देवीभागवते 'ततो देवा मुदा युक्ता मन्दरं स्थाप्य पूर्ववत् । प्रणिपत्य
महादेव वासुकिं तं विसृज्य च ॥ इति ॥ इतीति ॥ इति इत्यं स्तुवन्तो विबुधा
देवा: युष्मासु विषये वयं प्रसन्नाः अनुग्रहीतारस्स्मः भवामः यथापुरं पुरेव
स्वाराज्य परिपालयत संरक्षणं कुरुतेत्यर्थः । इति एवंप्रकाराम् । प्रसन्ना अर्थमधुरा
च सा गम्भीरा श्राव्या चेति कर्मधारयः । तथाभूतामाकाशसम्भवामाकाशो-
4. दासवादपतनं महासेवा इति, भगवद्धतेरपि भागवतभक्तेरुत्कर्ष दर्शयन् कविः,
भक्तमनोभावं, देवतामनोभावं च विशदयति ॥