2023-09-02 10:31:39 by Bharadwajraki
This page has been fully proofread twice.
अथ पुनरन्तर्निगूढमत्सरानप्यभिनीतमहाविनयान्, अपनीतविषानिव महोरगानसुरान्विसृज्य सुधारसास्वादसुहिततया कन्दुकमिव मन्दरं करतलेन धारयन्तः, प्रशंसन्तो वासुकिं भवत्प्रसादेन वयममर्त्या अभूमेति, परिरभ्य निर्भरम्, प्रस्थाप्य रसातलम्, उपनिवेशयन्तो [^१]यथापुरं मन्दरम्, उपतस्थिरे चन्द्रशेखरम् ।
'क्षमेथाश्श्रीकण्ठ प्रचलनमिदं मन्दरगिरेः
क्षमेथाः काकोलं कबळयितुमाशासनमपि ।
क्षमेथा यत्पूजास्वपचरितमासीदहरहः
प्रपन्नास्त्वामेकं शरणमशरण्या वयममी ॥' ५९ ॥
अक्ष्णोः पुष्पवतोरेकमर्पयन्नीश ते पदे ।
चक्षुषी पुण्डरीकाभे चतुरोऽलभताच्युतः ॥ ६० ॥
[commentary]
असमर्था भवन्तीति भावः ॥ अथेति ॥ अथानन्तरं अन्तर्निगूढः अन्तर्निहितः मत्सरः मात्सर्यं यैस्ते । 'मत्सरोऽन्यशुभद्वेष' इत्यमरः । तथाभूतैः अभिनीतः अनुकृतः विनयः यैस्ते तथाभूतैः अत एव अपनीतमपयातं विषं येभ्यस्ते तथाभूतान् महोरगान् कृष्णसर्पानिव स्थितान् असुरान् दानवान् विसृज्य प्रयाप्य । सुधायाः आस्वादः पानं तेन सुहितास्तृप्तास्तेषां भावस्तत्ता तया मन्दरमद्रिं कन्दुकमिव धारयन्तः वहन्तस्सन्तः भवतः प्रसादोऽनुग्रहः तेन वयममर्त्या मरणधर्मरहिताः अभूम आस्म । इति इत्थं वासुकिं निर्भरमत्यन्तं परिरभ्य आलिङ्ग्य प्रशंसन्तः स्तुवन्तस्सन्तः रसातलं प्रस्थाप्य प्रेषयित्वा । यथापुरं पुरेव मन्दरं उपवेशयन्तः चन्द्रशेखरमुपतस्थिरे तुष्टुवुरित्यर्थः ॥ अथ शशिशेखरं भगवन्तं स्तोतुं समुपचक्रिमरे ॥ क्षमेथा इति ॥ हे श्रीकण्ठ विषकण्ठेत्यर्थः । काकोलं विषं कबळयितुं भक्षयितुमाशासनं प्रार्थनमपि क्षमेथाः क्षमस्वेत्यर्थः । अहरहः प्रत्यहं पूजासु विषये यदपचरितं अननुष्ठानलक्षणः यः अपचारः स्वकार्यव्यापृतत्वादिति भावः । तदपचरितं क्षमेथाः क्षमस्वेत्यर्थः । अविद्यमानः शरणे साधुश्शरण्यः येषांतेंते तथाभूताः रक्षकान्तररहिता इत्यर्थः । अमी वयं त्वामेकं भवन्तमेव शरणं रक्षितारं सन्तं प्रपन्नाः प्राप्ताः स्मः ॥ अक्ष्णोरिति ॥ चतुरः निपुणः
[^१] मन्दरं कन्दुकमिव, तत्रत्यशिवचालनापराधभीत्या, सुधापानलब्धविशेषाः, धारयन्तः, यथास्थानं गमयामासुः ॥
'क्षमेथाश्श्रीकण्ठ प्रचलनमिदं मन्दरगिरेः
क्षमेथाः काकोलं कबळयितुमाशासनमपि ।
क्षमेथा यत्पूजास्वपचरितमासीदहरहः
प्रपन्नास्त्वामेकं शरणमशरण्या वयममी ॥' ५९ ॥
अक्ष्णोः पुष्पवतोरेकमर्पयन्नीश ते पदे ।
चक्षुषी पुण्डरीकाभे चतुरोऽलभताच्युतः ॥ ६० ॥
[commentary]
असमर्था भवन्तीति भावः ॥ अथेति ॥ अथानन्तरं अन्तर्निगूढः अन्तर्निहितः मत्सरः मात्सर्यं यैस्ते । 'मत्सरोऽन्यशुभद्वेष' इत्यमरः । तथाभूतैः अभिनीतः अनुकृतः विनयः यैस्ते तथाभूतैः अत एव अपनीतमपयातं विषं येभ्यस्ते तथाभूतान् महोरगान् कृष्णसर्पानिव स्थितान् असुरान् दानवान् विसृज्य प्रयाप्य । सुधायाः आस्वादः पानं तेन सुहितास्तृप्तास्तेषां भावस्तत्ता तया मन्दरमद्रिं कन्दुकमिव धारयन्तः वहन्तस्सन्तः भवतः प्रसादोऽनुग्रहः तेन वयममर्त्या मरणधर्मरहिताः अभूम आस्म । इति इत्थं वासुकिं निर्भरमत्यन्तं परिरभ्य आलिङ्ग्य प्रशंसन्तः स्तुवन्तस्सन्तः रसातलं प्रस्थाप्य प्रेषयित्वा । यथापुरं पुरेव मन्दरं उपवेशयन्तः चन्द्रशेखरमुपतस्थिरे तुष्टुवुरित्यर्थः ॥ अथ शशिशेखरं भगवन्तं स्तोतुं समुपचक्रिमरे ॥ क्षमेथा इति ॥ हे श्रीकण्ठ विषकण्ठेत्यर्थः । काकोलं विषं कबळयितुं भक्षयितुमाशासनं प्रार्थनमपि क्षमेथाः क्षमस्वेत्यर्थः । अहरहः प्रत्यहं पूजासु विषये यदपचरितं अननुष्ठानलक्षणः यः अपचारः स्वकार्यव्यापृतत्वादिति भावः । तदपचरितं क्षमेथाः क्षमस्वेत्यर्थः । अविद्यमानः शरणे साधुश्शरण्यः येषां
[^१] मन्दरं कन्दुकमिव, तत्रत्यशिवचालनापराधभीत्या, सुधापानलब्धविशेषाः, धारयन्तः, यथास्थानं गमयामासुः ॥