This page has been fully proofread once and needs a second look.

पंचमांश्वासः
 
३८७
 
अथ पुनरन्तर्निगूढ मत्सरानप्यभिनीत महाविनयान्, अपनीत
विषानिव महोरगानसुरान्विसृज्य सुधारसास्वादसुहिततया कन्दुकमिव
मन्दरं कंरतलेन धारयन्तः, प्रशंसन्तो वासुकिं भवत्प्रसादेन वयममर्त्या
अभूमेति, परिरभ्य निर्भरम्, प्रस्थाप्य रसातलम्, उपनिवेशयन्तो
' यथा
यथापुरं मन्दरम्, उपतस्थिरे चन्द्रशेखरम् ।
 

 
'क्ष
मेथाश्श्रीकण्ठ प्रचलनमिंदमिदं मन्दरगिरेः

क्षमेथाः काकोलं कबळयितुमाशासनमपि ।

क्षमेथा यत्पूजास्वपचरितमासीदहरहः

प्रपन्नास्त्वामेकं शरणमशरण्या वयममी ॥ ५९
अक्ष

 
अक्ष्
णोः पुष्पवतोरेकमर्पयन्नीश ते पदे ।
 

चक्षुषी पुण्डरीकाभे चतुरोऽलभताच्युतः ॥ ६० ॥
 
33
 

 
[commentary]
 
असमर्था भवन्तीति भावः ॥ अथेति ॥ अथानन्तरं अन्तर्निगूढः अन्तर्निहितः
मत्सरः मात्सर्यं यैस्ते । 'मत्सरोऽन्यशुभद्वेष' इत्यमरः । तथाभूतैः अभिनीतः
अनुकृतः विनयः यैस्ते तथाभूतैः अत एव अपनीतमपयातं विषं येभ्यस्ते तथाभूतान्
महोरगान् कृष्णसर्पानिव स्थितान् असुरान् दानवान् विसृज्य प्रयाप्य सुधायाः
आस्वाद :दः पानं तेन सुहितास्तृप्तास्तेषां भावस्तत्ता तया मन्दरमद्रिं कन्दुकमिव
धारयन्तः वहन्तस्सन्तः भवतः प्रसादोऽनुग्रहः तेन वयममर्त्या मरणधर्मरहिताः
अभूमं आस्म । इति इत्थं वासुकिं निर्भरमत्यन्तं परिरभ्य आलिङ्ग्य प्रशंसन्तः
स्तुवन्तस्सन्तः रसातलं प्रस्थाप्य प्रेषयित्वा । यथापुरं पुरेव मन्दरं उपवेशयन्तः
चन्द्रशेखरमुपतस्थिरे तुष्टुवुरित्यर्थः ॥ अथ शशिशेखरं भगवन्तं स्तोतुं समुपच-
क्रिमरे ॥ क्षमेथा इति ॥ हे श्रीकण्ठ विषकण्ठेत्यर्थः । काकोलं विषं कब-
ळयितुतुं भक्षयितुमाशासनं प्रार्थनमपि क्षमेथाः क्षमस्वेत्यर्थः । अहरहः प्रत्यहं
पूजासु विषये यदपंचरितं अननुष्ठानलक्षणः यः अपचारः स्वकार्यव्यापृतत्वादिति
भावः । तदपचरितं क्षमेथाः क्षमस्वेत्यर्थः । अविद्यमानः शरणे साधुश्शरण्यः
येषां तें तथाभूताः रक्षकान्त ररहिता इत्यर्थः । अमी वयं त्वामेकं भवन्तमेव
शरणं रक्षितारं सन्तं प्रपन्नाः प्राप्ताः स्मः ॥ अक्ष्णोरिति ॥ चतुरः निपुण:
 
- 1.
णः
 
[^१]
मन्दरं कन्दुकमिव, तत्रत्यशिवचालनापराधभीत्या, सुधापानलब्धविशेषाः,
धारयन्तः, यथास्था नं गमयामासुः ॥
 
>