This page has not been fully proofread.

पंचमांश्वासः
 
३८७
 
अथ पुनरन्तर्निगूढ मत्सरानप्यभिनीत महाविनयान्, अपनीत
विषानिव महोरगानसुरान्विसृज्य सुधारसास्वादसुहिततया कन्दुकमिव
मन्दरं कंरतलेन धारयन्तः, प्रशंसन्तो वासुकिं भवत्प्रसादेन वयममर्त्या
अभूमेति, परिरभ्य निर्भरम्, प्रस्थाप्य रसातलम् उपनिवेशयन्तो
' यथा पुरं मन्दरम्, उपतस्थिरे चन्द्रशेखरम् ।
 
मेथार श्रीकण्ठ प्रचलनमिंद मन्दरगिरेः
क्षमेथाः काकोलं कबळयितुमाशासनमपि ।
क्षमेथा यत्पूजास्वपचरितमासीदहरहः
प्रपन्नास्त्वामेकं शरणमशरण्या वयममी ॥ ५९॥
अक्षणोः पुष्पवतोरेकमर्पयन्नीश ते पदे ।
 
चक्षुषी पुण्डरीकाभे चतुरोऽलभताच्युतः ॥ ६० ॥
 
33
 
असमर्था भवन्तीति भावः ॥ अथेति ॥ अथानन्तरं अन्तर्निगूढः अन्तर्निहितः
मत्सरः मात्सर्य यैस्ते । 'मत्सरोऽन्यशुभद्वेष' इत्यमरः । तथाभूतैः अभिनीतः
अनुकृतः विनयः यैस्ते तथाभूतैः अत एव अपनीतमपयातं विषं येभ्यस्ते तथाभूतान्
महोरगान् कृष्णसर्पानिव स्थितान् असुरान् दानवान् विसृज्य प्रयाप्य सुधायाः
आस्वाद : पानं तेन सुहितास्तृप्तास्तेषां भावस्तत्ता तया मन्दरमद्रिं कन्दुकमिव
धारयन्तः वहन्तस्सन्तः भवतः प्रसादोऽनुग्रहः तेन वयममर्त्या मरणधर्मरहिताः
अभूमं आस्म । इति इत्थं वासुकिं निर्भरमत्यन्तं परिरभ्य आलिङ्गय प्रशंसन्तः
स्तुवन्तस्सन्तः रसातलं प्रस्थाप्य प्रेषयित्वा । यथापुरं पुरेव मन्दरं उपवेशयन्तः
चन्द्रशेखरमुपतस्थिरे तुष्टुवुरित्यर्थः ॥ अथ शशिशेखरं भगवन्तं स्तोतुं समुपच-
कमरे ॥ क्षमेथा इति ॥ हे श्रीकण्ठ विषकण्ठेत्यर्थः । काकोलं विषं कब-
ळयितु भक्षयितुमाशासनं प्रार्थनमपि क्षमेथाः क्षमस्वेत्यर्थः । अहरहः प्रत्यहं
पूजासु विषये यदपंचरितं अननुष्ठानलक्षणः यः अपचारः स्वकार्यव्यापृतत्वादिति
भावः । तदपचरितं क्षमेथाः क्षमस्वेत्यर्थः । अविद्यमानः शरणे साधुश्शरण्यः
येषां तें तथाभूताः रक्षकान्त ररहिता इत्यर्थः । अमी वयं त्वामेकं भवन्तमेव
शरण रक्षिता सन्तं प्रपन्नाः प्राप्ताः स्मः ॥ अक्षणोरिति ॥ चतुरः निपुण:
 
- 1. मन्दर कन्दुकमिव तत्रत्यशिवचालनापराधभीत्या सुधापानलब्धविशेषाः,
धारयन्तः, यथास्था नं गमयामासुः ॥
 
>