We're performing server updates until 1 November. Learn more.

This page has been fully proofread twice.

नयमानैर्युद्धाय सद्य एंव शङ्खचक्रगदाखड्गसरसीरुहलाञ्छितमसुरलोकभयङ्करमाबभार रूपं नारायणी[^१] । 'भो भो महेन्द्रप्रमुखा देवा, मशकानिवैतानुत्सार्य दानवान्, मन्दरं यथापुरं प्रतिष्ठाप्य, वासुकिं विसृज्य विरूपाक्षमभिप्रसाद्य, लब्धानुज्ञास्सुखं पालयत स्वाराज्यम्[^२] इत्यनुगृह्य देवानन्तर्दधे सह चतुर्मुखेन शार्ङ्गधरः ।
 
तिरोभूते सद्यस्त्रिभुवनगुरौ स्वामिनि हरौ
विषीदन्तो दैत्या विबुधगुरुमानम्य शतशः ।
अयाचन्त स्थातुं निभृतमभयं भोगिभुवने
तथेति स्वीचक्रुस्तदपि विबुधा देशिकगिरा ॥ ५८ ॥
 
[commentary]
 
देवीभागवते 'पुनः प्रकृतिमापन्नः पुंरूपेणैव संस्थितः' इति ॥ भो इति ॥ भो भो महेन्द्रः प्रमुखः आदिर्येषां तथाभूताः हे देवाः एतानसुरान् मशकानिव कीटादीनिव उत्सार्य निष्कास्य यथापुरं पुरेवेत्यर्थः । मन्दरमद्रिं प्रतिष्ठाप्य संस्थाप्येत्यर्थः । वासुकिं सर्पराजं च विसृज्य पाताळं गमयित्वेत्यर्थः । विरूपाक्षं श्रीकण्ठम् । 'विरूपाक्षस्त्रिलोचनः' इत्यमरः । अभिप्रसाद्य प्रसादयित्वा लब्धा आज्ञा आदेशः यैस्तथाभूताः सन्तः । स्वाराज्यं सौवर्गराज्यं परिपालयत संरक्षणं कुरुतेत्यर्थः । इति इत्थं देवाननुगृह्य चतुर्मुखो ब्रह्मा तेन सह शार्ङ्गधरः शार्ङ्गधन्वा हरिः अन्तर्दधे अन्तर्धानं चकारेत्यर्थः । अदृष्टस्सञ्जात इति भावः ॥ तिरोभूत इति ॥ त्रिभुवनं त्रिलोकी तस्य गुरुः पिता । 'स्यान्निषेकादिकृद्गुरुः' इत्यमरः । 'अहं बीजप्रदः पिता' इति शास्त्रादिति भावः । स्वामिनि परमेश्वरे हरौ श्रीवासुदेवे सद्यः तिरोभूते अन्तर्हिते सति विषीदन्तः क्लिन्नन्तः दैत्याः दितिपुत्राः शतशः अनेकधा विबुधानां गुरुराचार्यः तं आनम्य नमस्कृत्य भोगिनां सर्पाणां भुवनं लोकः पाताळसंज्ञिकः तस्मिन् निभृतं निश्चलं यथा तथा अभयं अभीति यथातथेत्यर्थः स्थातुं वर्तितुं अयाचन्त प्रार्थयामासुरित्यर्थः । विबुधा अपि देशिकगिरा गुरूक्तया तत्प्रार्थनं तथेति स्वीचक्रुः अङ्गीचक्रुरित्यर्थः । भगवदनुग्रहे सति के नाम
 
[^१] एतावन्तं सुमुखी नारायणी पञ्चायुधहस्ता घोरा दानवान् धावयामासेत्युभयविधः प्रसादः सुराणां देव्या कृतः ॥