This page has been fully proofread once and needs a second look.

नीलकण्ठ विजये सव्याख्याने
 
नयमानैर्युद्धाय सद्य एंव शङ्खचक्रगं दाखड्गसंरसीरुहलाञ्छित मसुरलोक-
भयङ्करमाबभार रूपं नारायणी'[^१] । 'भो भो महेन्द्रप्रमुखा देवा, मश-
कार्निवैतानुत्सार्य दानवान्, मन्दरं यथा पुरं प्रतिष्ठाप्य, वासुकिं विसृज्य
विरूपाक्षमभिप्रसाद्य, लब्धानुज्ञास्सुखं पालयत स्वाराज्यम्'[^२] इत्यनुगृह्य
देवानन्तर्दधे सह चतुर्मुखेन शार्ङ्गधरः ।
 

 
तिरोभूते सद्यस्त्रिभुवनगुरौ स्वामिनि हरौ
 

विषीदन्तो दैत्या विबुधगुरुमानम्य शतशः ।

अयाचन्त स्थातुं निभृतमभयं भोगिभुवने
 

तथेति स्वीचक्रुस्तदपि विबुधा देशिकगिरा ॥ ५८ ॥
 

 
[commentary]
 
देवीभागवते 'पुनः प्रकृतिमापन्नः पुपुंरूपेणैव संस्थितः' इति ॥ भो इति ॥
भो भो महेन्द्रः प्रमुखः आदिर्येषां तथाभूताः हे देवाः एतानंसुरान् मशकानिव
कीटादीनिव उत्सार्य निष्कास्य 'यथा पुरं पुरेवेत्यर्थ:थः । मन्दरमद्रिं प्रतिष्ठाप्य
संस्थाप्येत्यर्थः । वासुकिं सर्पराजं च विसृज्य पाताळं गमयित्वेत्यर्थः । विरूपाक्षं
श्रीकण्ठम् । 'विरूपाक्षस्त्रिलोचनः' इत्यमरः । अभिप्रसाद्य प्रसादयित्वा लब्धा
आज्ञा आदेश:शः यैस्तथाभूताः सन्तः । स्वाराज्यं सौवर्गराज्यं परिपालयत संरक्षणं
कुरुतेत्यर्थः । इति इत्थं देवाननुगृह्य चतुर्मुखो ब्रह्मा तेन सह शार्ङ्गधरः शार्ङ्गधन्वा
हरिः अन्तर्दघेधे अन्तर्धानं चकारेत्यर्थः । अदृष्टस्सञ्जात इति भावः ॥ तिरोभूत
इति ॥ त्रिभुवनं त्रिलोकी तस्य गुरुः पिता । 'स्यान्निषेकादिकृद्गुरुः' इत्यमरः ।
'अहँहं बीजप्रदः पिता' इति शास्त्रादिति भावः । स्वामिनि परमेश्वरे हरौ श्रीवासुदेवे
सद्य:यः तिरोभूते अन्तर्हिते सति विषीदन्तः किक्लिन्नन्तः दैत्याः दितिपुत्राः शतशः
अनेकाकधा विबुधानां गुरुराचार्यः तं आनम्य नमस्कृत्य भोगिनां सर्पाणां भुवनं
लोक: पीकः पाताळसंज्ञिक:कः तस्मिन् निभृतं निश्चलं यथा तथा अभयं अभीति यथातथेत्यर्थः
स्थातुं वर्तितुं अयाचन्त प्रार्थयामासुरित्यर्थः । विबुधा अपि देशिकगिरा गुरूत्क्तया
तत्प्रार्थनं तथेति स्वींवीचक्रुः अङ्गीचक्रुरित्यर्थः । भगवदनुग्रहे सति के नाम
 
1.

 
[^१]
एतावन्तं सुमुखी नारायणी पञ्चायुधहस्ता घोरा दानवान् घा धावयामा सेत्युभयविधः
प्रसादः सुराणां देव्या कृतः ॥