This page has not been fully proofread.

नीलकण्ठ विजये सव्याख्याने
 
नयमानैयुद्धाय सद्य एंव शङ्खचक्रगं दाखड्गसंरसीरुहलाञ्छित मसुरलोक-
भयङ्करमाबभार रूपं नारायणी' । 'भो भो महेन्द्रप्रमुखा देवा, मश-
कार्निवैतानुत्साय दानवान्, मन्दरं यथा पुरं प्रतिष्ठाप्य, वासुकिं विसृज्य
विरूपाक्षमभिप्रसाद्य, लब्धानुज्ञास्सुखं पालयत स्वाराज्यम्' इत्यनुगृह्य
देवानन्तर्दधे सह चतुर्मुखेन शार्ङ्गधरः ।
 
तिरोभूते सद्यस्त्रिभुवनगुरौ स्वामिनि हरौ
 
विषीदन्तो दैत्या विबुधगुरुमानम्य शतशः ।
अयाचन्त स्थातुं निभृतमभयं भोगिभुवने
 
तथेति स्वीचक्रुस्तदपि विबुधा देशिकगिरा ॥ ५८ ॥
 
देवीभागवते 'पुनः प्रकृतिमापन्नः पुरूपेणैव संस्थितः' इति ॥ भो इति ॥
भो भो महेन्द्रः प्रमुखः आदिर्येषां तथाभूताः हे देवाः एतानंसुरान् मशकानिव
कीटादीनिव उत्साय निष्कास्य 'यथा पुरं पुरेवेत्यर्थ: । मन्दरमद्रिं प्रतिष्ठाप्य
संस्थाप्येत्यर्थः । वासुकिं सर्पराजं च विसृज्य पाताळं गमयित्वेत्यर्थः । विरूपाक्षं
श्रीकण्ठम् । 'विरूपाक्षस्त्रिलोचनः' इत्यमरः । अभिप्रसाद्य प्रसादयित्वा लब्धा
आज्ञा आदेश: यैस्तथाभूताः सन्तः । स्वाराज्यं सौवर्गराज्यं परिपालयत संरक्षणं
कुरुतेत्यर्थः । इति इत्थं देवाननुगृह्य चतुर्मुखो ब्रह्मा तेन सह शार्ङ्गधरः शार्ङ्गधन्वा
हरिः अन्तर्दघे अन्तर्धान चकारेत्यर्थः । अदृष्टस्सञ्जात इति भावः ॥ तिरोभूत
इति ॥ त्रिभुवन त्रिलोकी तस्य गुरुः पिता । 'स्यान्निषेकादिकद्गुरुः' इत्यमरः ।
'अहँ बीजप्रदः पिता' इति शास्त्रादिति भावः । स्वामिनि परमेश्वरे हरौ श्रीवासुदेवे
सद्य: तिरोभूते अन्तर्हिते सति विषीदन्तः किन्तः दैत्याः दितिपुत्राः शतशः
अनेका विबुधानां गुरुराचार्यः तं आनम्य नमस्कृत्य भोगिनां सर्पाणां भुवनं
लोक: पीताळसंज्ञिक: तस्मिन् निभृत निश्चलं यथा तथा अभयं अभीति यथातथेत्यर्थः
स्थातुं वर्तितुं अयाचन्त प्रार्थयामासुरित्यर्थः । विबुधा अपि देशिकगिरा गुरूत्तया
तत्प्रार्थनं तथेति स्वींचक्रुः अङ्गीचक्रुरित्यर्थः । भगवदनुग्रहे सति के नाम
 
1. एतावन्तं सुमुखी नारायणी पञ्चायुधहस्ता घोरा दानवान् घावयामा सेत्युभयविधः
प्रसादः सुराणां देव्या कृतः ॥