This page has been fully proofread twice.

कूलंङ्कषस्तनतटार्पितकुंकुमाङ्कं
शार्ङ्गिन्निदं शरणयेम तवाद्यरूपम् ॥ ५६ ॥
 
उल्लङ्घ्य निर्माल्यमुदासितं यत्
अजानताऽनेन पदे भवत्याः ।
तत्स्वामिनि स्वामिनि वासवे[^१] नः
क्षन्तव्यमित्येव निवेदयामः ॥ ५७ ॥
 
इति स्तूयमानैव सा सुपर्वभिरिदं किमापतितमियं का तरुणीति शङ्काकळङ्कितैः आलोक्य रिक्तममृतभाजनं आविष्कृतमहारोषपरुषैरसुरैस्स-
 
[commentary]
 
आनीलाः केशाः यस्य तत्तथाभूतम् । अरविन्ददळे इव आयते अक्षिणी यस्य तत्तथाभूतम् । आविष्कृतं प्रकटितं स्मितं मन्दहासः यस्य तत्तथाभूतम् । अपारा निस्सीमा या कृपा दया तस्या निदानमादिकारणम् । कूलङ्कषयोः स्तनतटयोरर्पितं यत्कुङ्कुमं तदेवाङ्कं चिह्नं यस्य तत्तथाभूतम् । तवेदं रूपमेव हे आद्य शार्ङ्गिन् नः शरणं रक्षकमित्यर्थः ॥ उल्लङ्घ्येति ॥ हे स्वामिनि स्वामिन्शब्दात् 'ऋन्नेभ्यः' (१.४.५) इति ङीबन्तात्सम्बोधनरूपम् । भवत्याः परदेवतायाः पदे पादौ अजानता अविदुषा अनेनेन्द्रेण निर्माल्यं दुर्वाससा वितीर्णं उल्लङ्घ्य उदासितमिति यत् । भावे क्तः । तत् उदासनजन्यमागः नोऽस्माकं स्वामिनि ईश्वरे वासवे विषये क्षन्तव्यं क्षन्तुं योग्यमित्यर्थः । अस्मत्स्वामिरक्षणमेवास्माकं रक्षणमिति भावः । इत्येव एतावदेव निवेदयामः ज्ञापयामः ॥ इतीति ॥ इति इत्थं सुपर्वभिः देवैः स्तुतिभाजनीक्रियमाणैव सा नारायणी परदेवता । 'नारायणी रमागौर्योः' इति भास्करः । इदं किमापतितं किमागतमित्यर्थः । इयं तरुणी केति शङ्का सन्देहः तेन कलङ्किताः कलुषिताः तथाभूतैः । रिक्तं शून्यं अमृतभाजनं सुधाकलशं आलोक्य आविष्कृतः प्रकटीकृतः महानधिकश्च यो रोषः क्रोधः तेन परुषाः कठिनाः तथाभूतैः असुरैः युद्धाय सन्नह्यमानेव सन्नाहवतीव सद्य एव शङ्खचक्राभ्यां गदाखङ्ड्गाभ्यां सरसीरुहेन कमलेन च लाञ्छितं लक्षितमित्यर्थः । असुरलोकानां भयङ्करं भीतिकारणं रूपं आबभार दधारेत्यर्थः । तथा चोक्तं
 
[^१] प्राक्कृतं निर्माल्यानादररूपापराधं क्षमापयति मघवा ।