This page has not been fully proofread.

पञ्चमाश्वासः
 
३८५
 
कूलंङ्कषस्तनतटार्पितकुंकुमाङ्कं
शान्निदं शरणयेम तवाद्यरूपम् ॥ ५६ ॥
 
उल्लय निर्माल्यमुदासित यत्
 
अजानताऽनेन पदे भवत्याः ।
तत्स्वामिनि स्वामिनि वासवे नः
 
क्षन्तव्यमित्येव निवेदयामः ॥ ५७ ॥
इति स्तूयमानैव सा सुपर्वभिरिदं किमापतितमियं का तरुणीति
शङ्काकळकतै; आलोक्य रिक्तममृतभाजनं आविष्कृत महारोषपरुपैरसुरैस्स-
आनीला: केशाः यस्य तत्तथाभूतम् । अरविन्ददळे इव आयते अक्षिणी यस्य
तत्तथाभूतम् । आविष्कृतं प्रकटितं स्मितं मन्दहासः यस्य तत्तथाभूतम् । अपारा
निस्सीमा या कृपा दया तस्या निदानमादिकारणम् । कूलङ्कषयोः स्तनतटयोरर्पितं
यत्कुङ्कुमं तदेवानं चिंह यस्य तत्तथाभूतम् । तवेदं रूपमेव हे आद्य शाङ्गिन् नः
शरणं रक्षकमित्यर्थः ॥ उल्लङ्घयेति ॥ हे स्वामिनि स्वामिन् शब्दात् 'ऋन्नेभ्य: '
(1-4-5) इति ङीबन्तात्सम्बोधनरूपम् । भवत्याः परदेवतायाः पदे पादौ अजा-
नता अविदुषा अनेनेन्द्रेण निर्माल्यं दुर्वाससा वितीर्णं उल्लङ्घय उदासितमिति
यतु । भावे क्तः । तत् उदासनजन्यमागः नोऽस्माकं स्वामिनि ईश्वरे वासवे
विषये क्षन्तव्यं क्षन्तुं योग्यमित्यर्थः । अस्मत्स्वामिरक्षणमेवास्माकं रक्षणमिति
भावः । इत्येव एतावदेव निवेदयामः ज्ञापयामः ॥ इतीति ॥ इति इत्थं सुपर्वभिः
देवैः स्तुतिभाजनीक्रियमाणैव सा नारायणी परदेवता । 'नारायणी रमागौर्यो: "
इति भास्करः । इदं किमापतिंत किमागतमित्यर्थः । इयं तरुणी केति
शङ्का सन्देहः तेन कलङ्किता: कलुषिताः तथाभूतैः । रिक्तं शून्यं अमृतभाजनं
सुधाकलशं आलोक्य आविष्कृतः प्रकटीकृत महानधिकश्च यो रोषः क्रोध: तेन
परुषाः कठिनाः तथाभूतैः असुरैः युद्धाय सन्नह्यमानेव सन्नाहवतीव सद्य एव
शङ्खचक्राभ्यां गदाखङ्गाभ्यां सरसीरुहेन कमलेन च लाञ्छितं लक्षितमित्यर्थः ।
असुरलोकानां भयङ्करं भीतिकारणं रूपं आबभार दधारेत्यर्थः । तथा चोक्तं
 
:
 
1. प्राक्कृतं निर्माल्यानादररूपापराधं क्षमापयति मघावा ।
N-49