2023-07-27 13:06:02 by Bharadwajraki
This page has been fully proofread twice.
स्मृतमद्य व्यतीपात इत्यन्तरा गन्तुकामेषु, अनुयुञ्जानेषु पुनः पुनरार्तवदिनानि शपथपूर्वकं, अतिक्रामति निषेधलग्नमित्यसहमानेषु बाह्यसुरतव्यापारविळम्बं, अवधीरयत्सु पुरुषायितं, असम्मन्यमानेषु बन्धभेदान्, विगायत्सु वीटिकोपसेवनमप्यनुचितोऽयं काल इति, आनन्दमूर्च्छावसर एव निभृतमनुसन्दधानेषु मन्त्रलिङ्गानि, परवशरतान्तनिद्रावसर एव यावत्सन्निपातं च सहशय्येति परिहरत्सु पर्यङ्कशायिकां, द्वितीयसुरतारम्भ एव देहि मे कमण्डलुमिति त्वरमाणेषु मन्दाकिनीगमनाय, विहसन्ति विषीदन्ति विलज्जन्ते विस्मयन्ते च रम्भादिमेनकान्ता देववारकान्ताः ।
[Ccommentary]
मार्गः । वैदिकैरगन्तव्य इति भावः । इति चुम्बनभेदाः चुम्बनविशेषाः तेषां प्रस्तावना कथा, तस्यां प्रवृत्तायामिति शेषः । पिहितकर्णेषु तिरोहितश्रोत्रेषु सत्सु । हस्ताभ्यामित्यस्य गम्यमानत्वादप्रयोगः । नीव्याः वस्त्रग्रन्थेः विमोचनावसर एव निवीतस्य धारणं निवीतं यथा स्यात्तथा धारणमित्यर्थः । 'निवीतं कण्ठलम्बितं' इत्यमरः । तत्र व्यग्रेषु जागरूकेषु सत्सु ॥ 'ऋष्यर्चने निवीतं स्यात्तथा वस्त्रस्य
धारणे । रेतस्सेके तथा मूत्रपुरीषोत्सर्गयोरपि ॥' इति शास्त्रादिति भावः । मणितस्य रतिकूजितस्य अवसरे समये, मन्त्राणां जपः स्पष्टं कथनं, जप व्यक्तायां वाचीति[^१] धातोः रूपम् । तेन मुखरेषु नदत्सु । आ इति खेदे निपातः । स्मृतः आध्यातः अद्य व्यतीपातः तन्नामकः पञ्चाङ्गयोग इति । अन्तरा रत्यन्तराळे गन्तुकामेषु, बहिरिति शेषः । आर्तवदिनानि ऋतोरिमानि आर्तवानि । "तस्येदम्" इति (पा.सू. ४.३.१२०) अण्प्रत्ययः । ऋतुसम्बन्धीनि दिनानि । शपथः पूर्वः यस्मिन् कर्मणि तत्तथा शपथपूर्वं, ससमयं यथा भवति तथेत्यर्थः । अनुयुञ्जानेषु पृच्छत्सु सत्सु । निषेकः गर्भाधानं तदर्थं लग्नं निर्णीतनिर्दुष्टलक्षणं अतिक्रामति अतिगच्छतीति, बाह्याः ये सुरतव्यापाराः स्तनग्रहणादयः तैर्विलम्बं
कालक्षेपं असहमानेषु सोढुमपारीणेषु । पुरुषायितमुपरिरतसंज्ञिकक्रीडाविशेषं अवधीरयत्सु तिरस्कुर्वत्सु सत्सु । बन्धभेदान्, बन्धाः कामशास्त्रप्रसिद्धकुक्कुटबन्धादयः, तेषां भेदान् प्रभेदान्, असम्मन्यमानेषु अनङ्गीकुर्वाणेषु सत्सु । वीटि-
[^१] "जप, जल्प-व्यक्तायां वाचि, जप-मानसे च" इति भ्वादौ अनुनासिकान्तानां धातूनां पूर्वं "अथ परस्मैपदिनः" इत्यारभ्य पठितः तृतीयो धातुः जपेति ॥
[