2023-07-07 07:07:00 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  प्रथमाश्वासः
  
  
  
   
  
  
  
  निषेकलग्न मित्य सहमानेषु
  
  
  
   
  
  
  
  असम्मन्य-
  
  
  
  स्मृतमद्य व्यतीपात इत्यन्तरा गन्तुकामेषु, अनुयुञ्जानेषु पुनः पुनरा
  
  
  
  र्तवदिनानि शपथपूर्वकं, अतिक्रामति
  
  
  
   निषेधलग्नमित्यसहमानेषु बाह्यसुरतव्यापारविळम्बं, अवधीरयत्सु पुरुषायितं,
  
  
  
   असम्मन्यमानेषु बन्धभेदान्, विगायत्सु वीटिकोपसेवनमध्यनुचितोऽयं काल
  
  
  
   इति, आनन्दमूर्च्छावसर एव निभृतमनुसन्दधानेषु मन्त्रलिङ्गानि,
  
  
  
   परवशरतान्तनिद्रावसर एव यावत्सन्निपातं च सहशय्येति परिहरत्सु
  
  
  
   पर्यङ्कशायिकां, द्वितीयसुरतारम्भ एव देहि मे कमण्डलुमिति त्वरमाणेषु
  
  
  
   मन्दाकिनीगमनाय, विहसन्ति विषीदन्ति विलज्जन्ते विस्मयन्ते च
  
  
  
  
  
  
  
  रम्भादि मेनकान्ता देववारकान्ताः ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  मार्ग:गः । वैदिकैरगन्तव्य इति भावः । इति चुम्बनभेदा:दाः चुम्बनविशेषाः तेषां
  
  
  
   प्रस्तावना कथा, तस्यां प्रवृत्तायामिति शेषः । पिहितकर्णेषु तिरोहितश्रोत्रेषु सत्सु ।
  
  
  
   हस्ताभ्यामित्यस्य गम्यमानत्वादप्रयोगः । नीव्याः वस्त्रग्रन्थे:थेः विमोचनावसर एव
  
  
  
   निवीतस्य धारणं निवीतं यथा स्यात्तथा धारणमित्यर्थः । ' निवीतं कण्ठलम्बितं '
  
  
  
   इत्यमरः । तत्र व्यग्रेषु जागरूकेषु सत्सु ॥ 'ऋप्ष्यर्चने निवीतं स्यात्तथा वस्त्रस्य
  
  
  
  
  
  
  
  धारणे । रेतस्सेके तथा मूत्रपुरीषोत्सर्गयोरपि ॥' इति शास्त्रादिति भावः । मणि-
  
  
  
  तस्य रतिकूजितस्य अवसरे समये, मन्त्राणां जपः स्पष्टं कथनं, जप व्यक्तायां
  
  
  
   वाचीति'[^१] धातोः रूपम् । तेन मुखरेषु नदत्सु । आ इति खेदे निपातः ।
  
  
  
   स्मृतः आध्यातः अद्य व्यतीपातः तन्नामकः पञ्चाङ्गयोग इति । अन्तरा रत्यन्त-
  
  
  
  राळे गन्तुकामेषु, बहिरिति शेषः । आर्तवदिनानि ऋतोरिमानि आर्तवानि ।
  
  
  
   "तस्येदम्" इति (पा.सू. 4-3-120४.३.१२०) अण्प्रत्ययः । ऋतुसम्बन्धीनि दिनानि । शपथ:
  
  
  
  थः पूर्वः यस्मिन् कर्मणि तत्तथा शपथपूर्व, ससमयं यथा भवति तथेत्यर्थः । अनुयु-
  
  
  
  ञ्जानेषु पृच्छत्सु सत्सु । निषेक:कः गर्भाधानं तदर्थथं लग्नं निर्णीत निर्दुष्टलक्षणं अति-
  
  
  
  क्रामति अतिगच्छतीति, बाह्यायाः ये सुरतव्यापारा:राः स्तनग्रहणादयः तैर्विलम्ब
  
  
  
  बं
  
  
  
  कालक्षेपं असहमानेषु सोढुमपारीणेषु । पुरुषायितमुपरिरतसंज्ञिकक्रीड। डाविशेष
  
  
  
  षं अवधीरयत्सु तिरस्कुर्वत्सु सत्सु । बन्धभेदान्, बन्धाः कामशास्त्रप्रसिद्धकुक्कुट-
  
  
  
  बन्धादयः, तेषां भेदान् प्रभेदान्, असम्मन्यमानेषु अनङ्गीकुर्वाणेषु सत्सु । वीटि-
  
  
  
  
  
  
  
   
  
  
  
  [^१] "
  
  
  
   
  
  
  
  1. " जप, जल्प-व्यक्तायां वाचि, जप-मानसे च" इति भ्वादौ अनुनासि
  
  
  
  कान्तानां धातूनां पूर्ववं " अथ परस्मैपदिन: नः" इत्यारभ्य पठितः तृतीयो धातुः जपेति ॥
  
  
  
   
  
  
  
  66