This page has not been fully proofread.

प्रथमाश्वासः
 
निषेकलग्न मित्य सहमानेषु
 
असम्मन्य-
स्मृतमय व्यतीपात इत्यन्तरा गन्तुकामेषु, अनुयुञ्जानेषु पुनः पुनरा
र्तवदिनानि शपथपूर्वकं, अतिक्रामति
बाह्यसुरतव्यापारविळम्बं, अवधीरयत्सु पुरुषायितं,
मानेषु बन्धभेदान्, विगायत्सु वीटिकोपसेवनमध्यनुचितोऽयं काल
इति, आनन्दमूर्च्छावसर एव निभृतमनुसन्दधानेषु मन्त्रलिङ्गानि,
परवशरतान्तनिद्रावसर एव यावत्सन्निपातं च सहशय्येति परिहरत्सु
पर्यङ्कशायिकां, द्वितीयसुरतारम्भ एव देहि मे कमण्डलुमिति त्वरमाणेषु
मन्दाकिनीगमनाय, विहसन्ति विषीदन्ति विलज्जन्ते विस्मयन्ते च
रम्भादि मेनकान्ता देववारकान्ताः ।
 
मार्ग: । वैदिकैरगन्तव्य इति भावः । इति चुम्बनभेदा: चुम्बनविशेषाः तेषां
प्रस्तावना कथा, तस्यां प्रवृत्तायामिति शेषः । पिहितकर्णेषु तिरोहितश्रोत्रेषु सत्सु ।
हस्ताभ्यामित्यस्य गम्यमानत्वादप्रयोगः । नीव्याः वस्त्रग्रन्थे: विमोचनावसर एव
निवीतस्य धारणं निवीतं यथा स्यात्तथा धारणमित्यर्थः । ' निवीतं कण्ठलम्बितं '
इत्यमरः । तत्र व्यग्रेषु जागरूकेषु सत्सु ॥ 'ऋप्यर्चने निवीतं स्यात्तथा वस्त्रस्य
धारणे । रेतस्सेके तथा मूत्रपुरीषोत्सर्गयोरपि ॥' इति शास्त्रादिति भावः । मणि-
तस्य रतिकूजितस्य अवसरे समये, मन्त्राणां जपः स्पष्टं कथनं, जप व्यक्तायां
वाचीति' धातोः रूपम् । तेन मुखरेषु नदत्सु । आ इति खेदे निपातः ।
स्मृतः आध्यातः अद्य व्यतीपातः तन्नामकः पञ्चाङ्गयोग इति । अन्तरा रत्यन्त-
राळे गन्तुकामेषु, बहिरिति शेषः । आर्तवदिनानि ऋतोरिमानि आर्तवानि ।
"तस्येदम्" इति (पा.सू. 4-3-120) अण्प्रत्ययः । ऋतुसम्बन्धीनि दिनानि । शपथ:
पूर्वः यस्मिन् कर्मणि तत्तथा शपथपूर्व, ससमयं यथा भवति तथेत्यर्थः । अनुयु-
ञ्जानेषु पृच्छत्सु सत्सु । निषेक: गर्भाधानं तदर्थ लग्नं निर्णीत निर्दुष्टलक्षणं अति-
क्रामति अतिगच्छतीति, बाह्या ये सुरतव्यापारा: स्तनग्रहणादयः तैर्विलम्ब
कालक्षेपं असहमानेषु सोढुमपारीणेषु । पुरुषायितमुपरिरतसंज्ञिकक्रीड। विशेष
अवधीरयत्सु तिरस्कुर्वत्सु सत्सु । बन्धभेदान् बन्धाः कामशास्त्रप्रसिद्धकुक्कुट-
बन्धादयः, तेषां भेदान् प्रभेदान्, असम्मन्यमानेषु अनङ्गीकुर्वाणेषु सत्सु । वीटि-
"
 
1. " जप, जल्प-व्यक्तायां वाचि, जप-मानसे च इति भ्वादौ अनुनासि
कान्तानां धातूनां पूर्व " अथ परस्मैपदिन: " इत्यारभ्य पठितः तृतीयो धातुः जपेति ॥
 
66