This page has been fully proofread twice.

'वन्दामहे कमलनाभमनन्तमाद्यं
वन्दामहे भुवनमोहनशक्तिमैशीम् ।
वन्दामहे तदुभयाद्वयवादमूलं
आनीलकण्ठमवतंसितचन्द्ररेखम् ॥ ५४ ॥
 
निरातङ्कं स्वामिन् निरुपधियासार भगवन्
प्रपन्नानुग्राहिन् परमपुरुष त्वत्करुणया ।
जिताः क्षुद्रा दैत्या जितमखिलमेतत्त्रिभुवनं
कृतं कर्तव्यं नः किमिव करणीयं पुनरितः ॥ ५५ ॥
 
आनीलकेशमरविन्ददळायताक्षं
आविष्कृतस्मितमपारकृपानिदानम् ।
 
[commentary]
 
तथाभूतास्सन्तः प्रत्यक्षमेव दानवाध्यक्षमेव तां परदेवतां स्तोतुमारेभिरे उपचक्रमिरे ॥ वन्दामह इति ॥ अविद्यमानः अन्तः नाशः यस्य सः अनन्तः तथाभूतं आद्यं सर्वकारणं कमलनाभं पद्मनाभं हरिं वन्दामहे स्तुमः । ऐशीं ईशसम्बन्धिनीं भुवनानां मोहनं तस्मिन् या शक्तिः सामर्थ्यं तां वन्दामहे
नमस्कुर्महे । अवतंसिता उत्तंसीकृता चन्द्ररेखा येन स तथाभूतं तयोः विष्ण्वीशशक्त्योरुभयं तस्मिन् योऽद्वयवादः अभेदवादः तस्मिन् मूलं मूलकारणमित्यर्थः । उभयोस्तयोश्शिवमायारूपत्वादिति भावः । उभयोरभेदे प्रमाणवचनं देवीभागवते 'या माता मधुकैटभप्रमथिनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डमथिनी या रक्तबीजाशनी । शक्तिश्शुम्भनिशुम्भदैत्यदमनी या सिद्धिलक्ष्मीप्रदा सा चण्डी नवकोटिशक्तिसहिता तत्राविरासीत् स्वयम् ॥' इत्यादिना प्रोक्तम् । आ ईषिन्नीलः कण्ठो तस्य स तथाभूतं परशिवं भजामहे नमस्कुर्महे ॥ ॥ निरातङ्केति ॥ निरुपधिः निर्व्याजः दयैव सारः स्थिरांशः यस्य तस्य सम्बुद्धिः प्रपन्नान् प्रणतिं प्राप्तान् अनुग्रहीतुं शीलं यस्य स तथाभूत । हे भगवन् अप्रच्युतैश्वर्यशालिन् हे स्वामिन् परमपुरुष तव करुणा कृपा तथा निष्क्रान्तः आतङ्कः रुगादिर्यस्मिन् कर्मणि तत्तथा । क्षुद्राः कदर्याः दैत्याः जिताः निर्जिताः अखिलमेव त्रिभुवनं जितं कर्तव्यमनुष्ठेयं सर्वं कृतं अनुष्ठितं इतः परं नोऽस्माकं किं करणीयं किमिव भवेदित्यर्थः । भवदाज्ञाविधायका वयमिति भावः ॥ आनीलेति ॥