This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
'वन्दामहे कमलनाभमनन्तमाद्यं
वन्दामहे भुवनमोहनशक्तिमैशीम् ।
वन्दामहे तदुभयाद्वयवादमूलं
आनीलकण्ठमवतं सितचन्द्ररेखम् ॥ ५४ ॥
 
निरातङ्कं स्वामिन् निरुप धियासार भगवन्
प्रपन्नांनुग्राहिन्- परमपुरुष त्वत्करुणया ।
जिताः क्षुद्रा दैत्या जितमखिलमेत त्रिभुवनं
कृतं कर्तव्यं नः किमिव करणीयं पुनरितः ॥ ५५ ॥
 
आनीलकेशमर विन्ददळायताक्षं
 
आविष्कृत स्मितमपार कृपानिदानम् ।
 
.
 
तथाभूतास्सन्तः प्रत्यक्षमेव दानवाघ्यक्षमेव तां परदेवतां स्तोतुमारेभिरे
उपचक्र मिरे ॥ वन्दामह इति ॥ अविद्यमानः अन्तः नाशः यस्य सः अनन्तः
तथाभूत आद्य सर्वकारण कमलनाभं पद्मनाभं हरिं वन्दामहे स्तुमः । ऐशीं
ईशसम्बन्धिनीं भुवनानां मोहन तस्मिन् या शक्ति: सामर्थ्य तां वन्दामहे
नमस्कुर्महे । अवतसिता उतसीकृता चन्द्ररेखा येन स तथाभूतं तयोः विष्ण्वी-
शशक्तयोरुभय तस्मिन् योऽवयवादः अभैदवादः तस्मिन् मूलं मूलकारणमित्यर्थः ।
उभयोस्तयोश्शिवमायारूपत्वादिति भावः ।' उभयोरभेदे प्रमाणवचनं देवीभागवते
"या माता मधुकैटभप्रमथिनी या माहिषोन्म लेनी या धूम्रेक्षणचण्डमुण्डमथिनी
या रक्तबीजाशनी । शक्तिश्शुम्भ निशुम्भदैत्यदमनी या सिद्धिलक्ष्मीप्रदा सा
चण्डी नवकोटिशक्तिसहिता तव विरासीत् स्वयम् ॥' इत्यादिना प्रोक्तम् ।
आ ईषिन्नील; कण्ठो तस्य स तथाभूतं परशिवं भजामहे नमस्कुर्महे ॥
॥ निरातङ्केति ॥ निरुपधिः निर्व्याजः दयैव सारः स्थिरांशः यस्य तस्य सम्बुद्धिः
प्रपन्नान् प्रणतिं प्राप्तान् अनुग्रहीतुं शीलं यस्य स तथाभूत । हे भगवन् अप्रच्यु-
तैश्वर्यशालिन हे स्वामिन् परमपुरुष तव करुणा कृपा तथा निष्क्रान्तः आतङ्कः
रुगादियस्मिन् कर्मणि तत्तथा । क्षुदाः कदर्या : दैत्याः जिता: निर्जिताः अखि-
लमेव त्रिभुवन जित कर्तव्यमनुष्ठेयं सर्वं कृतं अनुष्ठितं इतः परं नोऽस्माकं किं
करणीयं किमिव भवेदित्यर्थः । भवदाज्ञाविघायका वयमिति भावः ॥ आनीलेति ॥