This page has been fully proofread twice.

यस्यामृतं वदन एव धृतं स राहुः
अद्यापि पर्यवसितः फणमात्रशेषः ॥ ५२ ॥
 
यद्दृष्टं चन्द्रसूर्याभ्यां तद्दृष्टं निजया दृशा ।
क्षन्तुं शशाक तेनैषा मन्तुं न खलयोस्तयोः ॥ ५३ ॥
 
[commentary]
 
अनुगृह्येत्थममरानामृष्टोदरं सुधाकलशमन्तर्निहितदर्वीझणझणात्कारमौखर्यपूरितमग्रे निधाय दानवानामपेक्षमाणेव क्षणं विश्रममासाञ्चक्रे । तदनु सुधापानलब्धबलास्सुपर्वाणः परिगळितशङ्कातङ्काः प्रत्यक्षमेव तां [‍^१]प्रस्तोतुमारेभिरे ॥
 
[commentary]
 
येन असुरेण प्रथममादौ झडितीति शेषः । अन्तः निगीर्णं गलितं तस्यासुरस्य भोगमात्रं सर्पकायमात्रं तत्सोंऽशः अशिष्यत अवशिष्टमभूदित्यर्थः । यस्य असुरस्य वदन एव अमृतं धृतं विधृतं सोऽसुरः अद्यापि, फणामात्रेणेति शेषः । अवशिष्ट इत्यर्थः । राहुः पर्यवसितः सम्भूत इत्यर्थः । तथा चोक्तं देवीभागवते 'राहुसंज्ञस्तयोरेकः केतुसंज्ञस्तथापरः । पीतामृतप्रभावेन शिरो देहश्च तावुभौ ॥ देवत्वं प्रापितौ देव्या नवग्रहनिवेशितौ' इति ॥ यदिति ॥ चन्द्रसूर्याभ्यां यद्वस्तु दृष्टं अवलोकितं तद्वस्तु निजया स्वकीयया दृशा दृष्टम् । तयोरेव तन्नेत्रत्वादिति भावः । तेन कारणेन एषा परदेवता खलयोः दुष्टयोस्तयोः राक्षसयोः मन्तुमपराधम् । 'आगोऽपराधो मन्तुश्च' इत्यमरः । क्षन्तुं सोढुं न शशाक समर्था नाभूदित्यर्थः । दृष्टमपराधं विवेकी कस्तेजस्वी सहत इति भावः ॥ अनुगृह्येति ॥ अमरान् देवानित्थममृतप्रदानादिप्रकारेण अनुगृह्य आमृष्टमुदरमभ्यन्तरं यस्य तथाभुतमत एव अन्तर्निहिता विन्यस्ता या दर्वी तस्यास्सम्बन्धि झणझणात्कारलक्षणं मौखर्यं ध्वनिः तेन पूरितः भरितः तथाभूतं सुधाकलशं अग्रे निधाय सा परदेवता दानवानसुरानपेक्षमाणेव कामयमानेव क्षणं विश्रमं विगतः श्रमः
आयासः यस्मिन् कर्मणि तत्तथा आसाञ्चक्रे उपविवेशेत्यर्थः । 'दयायासश्च' (३.१.३७) इत्याम् । 'कास्प्रत्ययादाममन्त्रे लिटि' (३.१.३५) इति कृधातोरनुप्रयोगः । ॥ तदन्विति ॥ तदनु अनन्तरं सुधाया अमृतस्य पानं तेन लब्धं बलं सामर्थ्यं येषां ते तथाभूताः सुपर्वाणो देवाः परिगळिताः परिगताः शङ्कातङ्काः भयसन्तापा येषां ते
 
[^१] सुधापानात् अजरामरणाः बलवन्तः देवाः प्रस्तुतवन्तः देवीं शार्ङ्गिणं च ॥