This page has been fully proofread once and needs a second look.

पञ्चमाश्वासः
 
यस्यामृतं वदन एव धृतं स राहुः
 

अद्यापि पर्यवसितः फणमात्रशेषः ॥ ५२ ॥

 
यद्दृष्टं चन्द्रसूर्याभ्यां तद्द्दृष्टं निजया दृशा ।

क्षन्तुं शशाक तेनैषा मन्तुं न खलयोस्तयोः ॥ ५३ ॥
 
३८३
 

 
[commentary]
 
अनुगृह्येत्थममरानामृष्टोदरं सुधाकलशमन्तर्निहितदर्वीझणझणा-
त्कार मौखर्यपूरितमग्रे निधाय दानवानामपेक्षमाणेव क्षणं विश्रममासाञ्चक्रे ।
तदनु सुधापानलब्धबलास्सुपर्वाणः परिगळितशङ्कातङ्काः प्रत्यक्षमेव तां
'
[‍^१]प्रस्तोतुमारेभिरे ॥
 

 
[commentary]
 
येन असुरेण प्रथममादौ झडितीति शेषः । अन्तः निगीर्णंलिंतलितं तस्यासुरस्य
भोगमात्रं सर्पकायमात्रं तत्सोंशः अशिष्यत अवशिष्टमभूदित्यर्थः । यस्य
असुरस्य वदन एव अमृतं धृतं विधृतं सोऽसुर:रः अद्यापि, फणामात्रेणेति शेषः ।
अवशिष्ट इत्यर्थः । राहुः पर्यवसितः सम्भूत इत्यर्थः । तथा चोक्तं देवीभागवते
'राहुसंज्ञस्तयोरेकः केतुसंज्ञस्तथापरः । पीतामृतप्रभावेन शिरो देहश्च तावुभौ ॥
देवत्वं प्रापितौ देव्या नवग्रह निवेशितौ' इति ॥ यदिति ॥ चन्द्रसूर्याभ्यां यद्वस्तु
दृष्टं अवलोकिंतकितं तद्वस्तु निजया स्वकीयया दृशा दृष्टम् । तयोरेव तन्नेत्रत्वादिति
भावः । तेन कारणेन एषा परदेवता खलयोः दुष्टयोस्तयोः राक्षसयोः मन्तुमप -
राम् । 'आगोऽपराधो मन्तुश्च' इत्यमरः । क्षन्तुं सोढुं न शशाक समर्था नाभू-
दित्यर्थ:थः । दृष्टमपराधं विवेंवेकी कस्तेजस्वी सहत इति भावः ॥ अनुगृह्येति ॥
अमरान् देवा नित्थममृतप्रदानादिप्रकारेण अनुगृह्य आमृष्टमुदरमभ्यन्तरं यस्य
तथाभुतमत एव अन्तर्निहितांता विन्यस्ता या दवींर्वी तस्यास्सम्बन्धि झणझणा-
त्कारलक्षणं मौयेंर्यं ध्वनिः तेन पूरितः भरितः तथाभूतं सुधाकलशं अग्रे
निघाधाय सा परदेवता दानवानसुरानपेक्षमाणेव कामयमानेव क्षणं विश्रमं विगतः श्रमः

आयास:सः यस्मिन् कर्मणि तत्तथा आसाञ्चकेक्रे उपविवेशेत्यर्थः । 'दयायासश्च'
(3-1-37३.१.३७) इत्याम् । 'कास्प्रत्ययादा ममन्त्रे लिटि' (3-1-35 ३.१.३५) इति कृधातोरनुप्रयोगः
॥ तदन्त्रिविति ॥ तदनु अनन्तरं सुधाया अमृतस्य पानं तेन लब्धं बलं सामर्थ्यं येषां
ते तथाभूताः सुपवीर्वाणो देवाः परिगळिताः परिगताः शङ्कातङ्काः भयसन्तापा येषां ते
 
:.
 
1.

 
[^१]
सुधापानात् अजरामरणा:णाः बलवन्तः देवाः प्रस्तुतवन्तः देवीं शार्ङ्गिणं च ॥