This page has been fully proofread twice.

चरन्त्याः स्वच्छन्दं चरणतलमञ्जीररणितैः
कलस्निग्धामन्द्रैर्घनजघनकाञ्चीकलकलैः ।
कदाचित्पश्यन्त्या वलितमुखमस्याः परिजनं
कटाक्षैरप्यासीत्सुखितमखिलं दानवकुलम् ॥ ५१ ॥
 
ददाना च सा देवेषु दयारसमिव सुधारसम्, दैतेयावुभौ राहुकेतूनाम देवपङ्क्त्युपवेशिनौa भुजगवपुषौ पीतामृतावेव चन्द्रार्कसूचितौ[‍‍^१] दर्वीकाण्डेन विदारयामास कण्ठपदे ।
 
अन्तर्निगीर्णममृतं प्रथमं हि येन
तस्यासुरस्य तदशिष्यत भोगमात्रम् ।
 
[commentary]
 
दित्यर्थः ॥ चरन्त्या इति ॥ स्वच्छन्दं चरन्त्यास्सञ्चरन्त्याः वळितमावर्जितं मुखं यस्मिन् कर्मणि तत्तथा पश्यन्त्याः अस्या देव्याः चरणतलयोः पाददेशयोः यौ मञ्जीरौ पादकटकौ । 'हंसकः पादकटकः' 'मञ्जीरो नूपुरोऽस्त्रियाम्' इति च अमरः । तयोः रणितानि ध्वनयः तैः कलाः अव्यक्तमधुराः स्निग्धाः मेदुराश्च ये आमन्द्राः समन्तात् गम्भीराः तथाभूतैः घनं स्थूलं यज्जघनं कटिपुरोभागः । 'क्लीबे तु जघनं पुरः' इत्यमरः । तस्मिन् या काञ्ची मेखला तस्याः कलकलाः क्कोलाहलध्वनयः तैः कदाचित्परिजनं कटाक्षैश्च अखिलं दानवकुलमपि सुखितमानन्दितमासीत् । तथा चौक्तं देवीभागवते 'दैत्याः काञ्चित् स्त्रियं बुद्धा हावभाववशीकृताः । जडीभूताः प्रतीक्षन्ते स्वपङ्क्तिपरिवेषणम्' इति ॥ ददानेति ॥ देवेषु दयारसमिव स्थितं सुधारसं, उभयत्रावधारणसमासः । ददाना वितरन्ती सा परदेवता च देवानां पङ्क्तिः श्रेणी तस्यामुपवेशितौ उपवेशं प्रापितौ अत एव पीतामृतौ भुजगवपुषौ सर्पशरीरौ राहुरिति केतुरिति नामनी ययोः तौ तथाभूतावुभौ दैतेयौ असुरौ चन्द्रार्काभ्यां सूचितौ विनिवेदितौ सन्तौ दर्व्याः काण्डः वृन्तदण्डः तेत कण्ठपदे कण्ठस्थाने दारयामास बिभेदेत्यर्थः । शकलयाम्बभूवेत्यर्थः । तथा चोक्तं देवीभागवते 'अमृतार्थं देवपङ्क्तौ प्रविष्टः सिंहिकासुतः ।
सूचितश्चन्द्रसूर्याभ्यां दर्वीकाण्डेन खण्डितः' इति ॥ अन्तरिति । हि यस्मात्
 
a. 'उपवेशितौ' इति व्याख्यापाठः ।
 
[^१] अत एव चन्द्रार्कौ राहुः ग्रसति एतत्कालीनापराधात्, तत्रापि "मृदुर्हि परिभूयते --" इति न्यायात् चन्द्रं पुनः पुनः, सूर्यं कदाचिदित्यधुनापि प्रसिद्धम् ॥