This page has been fully proofread once and needs a second look.

३८२
 
नीलकण्ठविजये सव्याख्याने
चरन्त्याः स्वच्छन्दं चरणतलमञ्जीररणितैः

कलस्निग्धामन्द्रैर्घनजघनकाञ्ची कलकलैः ।

कदाचित्पश्यन्त्या वलितमुखमस्याः परिजनं

कटाक्षैरप्यासीत्सुखितमखिलं दानवकुलम् ॥ ५१ ॥

 
ददाना च सा देवेषु दयारसमिव सुधारसम्, दैतेयावुभौ राहुकेतू-
नाम देवपङ्क्त्युपवेशिनौa भुजगवपुषौ पीतामृतावेव चन्द्रार्कसूचितौ
दव
[‍‍^१] दर्वीकाण्डेन विदारयामास कण्ठपदे ।

 
अन्तर्निंनिगीर्णममृतं प्रथमं हि येन
 

तस्यासुरस्य तदशिष्यत भोगमात्रम् ।
 

 
[commentary]
 
दित्यर्थः ॥ चरन्त्या इति ॥ स्वच्छन्दं चरन्त्यास् सञ्चरन्त्याः वळितमावर्जितं
मुखेंखं यस्मिन् कर्मणि तत्तथा पश्यन्त्याः अस्या देव्याः चरणतलयोः पाददेशयोः
यौ मञ्जीरौ पादकटकौ । 'हंसक :कः पादकटक: कः' 'मञ्जीरो नूपुरोऽस्त्रियाम्' इति
च अमरः । तयोः रणितानि ध्वनयः तैः कलाः अव्यक्तमधुराः स्निग्धाः मेदुराश्च ये
आमन्द्राः समन्तात् गम्भीराः तथाभूतैः घनं स्थूलं यज्जघनं कटिपुरोभागः ।
'क्लीबे तु जघनं पुरः' इत्यमरः । तस्मिन् या काञ्ची मेखला तस्याः कलकला:
लाः क्कोलाहलध्वनयः तैः कदाचित्परिजनं कटाक्षैश्च अखिलं दानवकुलमपि सुखित-
मानन्दितमासीत् । तथा चौक्तं देवीभागवते 'दैत्याः काञ्चित् स्त्रियं बुद्धा
हावभाववशीकृताः । जडीभूताः प्रतीक्षन्ते स्वपङ्क्तिपरिवेषणम्' इति ॥ ददानेति ॥
देवें
देवेषु दयारसमिव स्थितं सुधारसं, उभयत्रावधारणसमास:सः । ददाना वितरन्ती
सा परदेवता च देवानां पङ्क्तिः श्रेणी तस्यामुपवेशितौ उपवेशं प्रापितौ अत
एव पीतामृतौ भुजगवपुषौ सर्पशरीरौ राहुरिति केतुरिति नामनी ययोः तौ तथा-
भूतावुभौ दैतेयौ असुरौ चन्द्रार्काभ्यां सूचितौ विनिवेदितौ सन्तौ दर्व्याः काण्डः
वृन्तदण्डः तेत कण्ठपदे कण्ठस्थाने दारयामास बिभेदेत्यर्थः । शकलयाम्बभूवे-
त्यर्थः । तथा चोक्तं देवीभागवते 'अमृतार्थं देवपङ्क्तौ प्रविष्टः सिंहिकासुतः ।

सूचितश्चन्द्रसूर्याभ्यां दुवदर्वीकाण्डेन खण्डितः' इति ॥ अन्तरिति । हि यस्मात्
 
भूयते.
 

 
a. 'उपवेशितौ' इति व्याख्या पाठः ।
 
1.
 
अं

 
[^१] अ
त एव चन्द्रार्कौ राहुः ग्रसति एतत्कालीनापराधात्, तत्रापि "मृदुर्हि परिभूयते -
>>
 
-" इति न्यायात् चन्द्रं पुनः पुनः, सूर्यं कदाचिदित्यधुनापि प्रसिद्धम् ॥
 
>