This page has not been fully proofread.

३८२
 
नीलकण्ठविजये सव्याख्याने
चरन्त्याः स्वच्छन्दं चरणतलमञ्जीररणितैः
कलस्निग्धामन्द्रैर्घनजघनकाञ्ची कलकलैः ।
कदाचित्पश्यन्त्या वलितमुखमस्याः परिजनं
कटाक्षैरप्यासीत्सुखितमखिलं दानवकुलम् ॥ ५१ ॥
ददाना च सा देवेषु दयारसमिव सुधारसम्, दैतेयावुभौ राहुकेतू-
नाम देवपङ्क्तयुपवेशिनौ भुजगवपुषौ पीतामृतावेव चन्द्रार्कसूचितौ
दवकाण्डेन विदारयामास कण्ठपदे ।
अन्तर्निंगीर्णममृतं प्रथमं हि येन
 
तस्यासुरस्य तदशिष्यत भोगमात्रम् ।
 
दित्यर्थः ॥ चरन्त्या इति ॥ स्वच्छन्दं चरन्त्यास् सञ्चरन्त्याः वळितमावर्जितं
मुखें यस्मिन् कर्मणि तत्तथा पश्यन्त्याः अस्या देव्याः चरणतलयोः पाददेशयोः
यौ मञ्जीरौ पादकटकौ । 'हंसक : पादकटक: ' 'मञ्जीरो नूपुरोऽस्त्रियाम्' इति
च अमरः। तयोः रणितानि ध्वनयः तैः कलाः अव्यक्तमधुराः स्निग्धाः मेदुराश्च ये
आमन्द्राः समन्तात् गम्भीराः तथाभूतैः घनं स्थूलं यज्जघनं कटिपुरोभागः ।
'क्लीबे तु जघनं पुरः' इत्यमरः । तस्मिन् या काञ्ची मेखला तस्याः कलकला:
कोलाहलध्वनयः तैः कदाचित्परिजन कटाक्षैश्च अखिलं दानवकुलमपि सुखित-
मानन्दितमासीत् । तथा चौक्तं देवीभागवते 'दैत्याः काञ्चित् स्त्रियं बुद्धा
हावभाववशीकृताः । जडीभूताः प्रतीक्षन्ते स्वपङ्क्तिपरिवेषणम्' इति ॥ ददानेति ॥
देवेंषु दयारसमिव स्थितं सुधारसं, उभयत्रावधारणसमास: । ददाना वितरन्ती
सा परदेवता च देवानां पङ्क्तिः श्रेणी तस्यामुपवेशितौ उपवेशं प्रापितौ अत
एव पीतामृतौ भुजगवपुषौ सर्पशरीरौ राहुरिति केतुरिति नामनी ययोः तौ तथा-
भूतावुभौ दैतेयौ असुरौ चन्द्राभ्यां सूचितौ विनिवेदितौ सन्तौ दर्व्याः काण्डः
वृन्तदण्डः तेत कण्ठपदे कण्ठस्थाने दारयामास बिभेदेत्यर्थः । शकलयाम्बभूवे-
त्यर्थः । तथा चोक्तं देवीभागवते 'अमृतार्थं देवपक्तौ प्रविष्टः सिंहिकासुतः ।
सूचितश्चन्दसूर्याभ्यां दुवकाण्डेन खण्डितः' इति ॥ अन्तरिति । हि यस्मात्
 
भूयते.
 
a. 'उपवेशितौ' इति व्याख्या पाठः ।
 
1.
 
अंत एव चन्द्राक राहुः ग्रसति एतत्कालीनापराधात् तत्रापि "मृदुर्हि परि-
>>
 
इति न्यायात् चन्द्रं पुनः पुनः, सूर्य कदाचिदित्यधुनापि प्रसिद्धम् ॥
 
>