This page has been fully proofread twice.

आनम्य किञ्चिदवमुच्य पिधानपात्रं
आदाय रत्नकलशादमृतं समग्रम् ।
दर्व्या मणीखचितया ददती सुरेषु
दिव्या कला भुवि चचार तटिल्लतेव ॥ ४९ ॥
 
मात्रार्पितं गरळमप्यमृतं शिशूनां
इत्यामनन्ति यदिदं विशदं तदासीत् ।
[^१]दर्वीकरत्वमपि सा दधती यदित्थं
दिव्यं ददावमृतमेव शिशुष्वमीषु ॥ ५० ॥
 
[commentary]
 
चिद्रूपाः ज्ञानरूपा परमा उत्कृष्टा पुरभिदः त्रिपुरध्वंसिनः कला अंशरूपा सा परदेवता तु मम चित्ते आस्ते वर्तत ध्येयतयेति भावः ॥ आनम्येति ॥ किञ्चिदीषदानम्य आनतिं कृत्वा पिधानमाच्छादनभूतं तदुपरि घटितं पात्रं अवमुच्य विस्रस्य मणिभिः रत्नैः खचिता प्रत्युप्ता तथाभूतया दर्व्या समग्रं सकलं
अमृतमादाय सुरेषु ददती वितरन्ती दिव्या प्रकाशमाना कला ईशांशभूता मोहिनी तटिल्लतेव भुवि चचार सञ्चचारेत्यर्थः । परिवेषणार्थमिति भावः । तथा चोक्तं देवीभागवते 'पङ्क्तिशः पर्यवस्थाप्य देवेभ्यः पर्यवेषयत् । परिविष्टं तदमृतं जनन्या दर्विहस्तया ॥ भुज्यमानास्तदा देवीं ध्यायन्तो लोकमातरम् । देवा बुबुधिरे बुद्ध्या महालक्ष्मीकृपावशात् ॥ पञ्चब्रह्मासनासीनां परब्रह्मस्वरूपिणीम्।' इति ॥ मात्रेति ॥ यद्यस्मात् दर्वीं करे यस्यास्सा दर्वीकरा तस्याः भावस्तत्त्वम् । तत् हस्ते दर्वीमिति फलितार्थः । अन्यत्र दर्वीकरस्सर्पः तस्य भावस्तत्त्वम् । 'दर्वीकरो दीर्घपृष्ठः' इत्यमरः । दधत्यपि धृतवत्यपि सा परदेवता शिशुषु पृथुकेषु । 'पृथुकश्शाबकश्शिशुः' इत्यमरः । अमीषु देवेषु विषये दिव्यमुत्कृष्टं अमृतं ददौ विततार तत्तस्मात् मात्रा जनन्या, अर्पितं वितीर्णमित्यर्थः । गरळं विषमपि । 'क्ष्वेळस्तु गरळं विषम्' इत्यमरः । शिशूनां अमृतं पीयूषम् । 'पीयूषममृतं सुधा' इत्यमरः । भवति इत्थं यद्वचनमामनन्ति प्रवदन्तीत्यर्थः । तदिदं वचः विशदं विस्पष्टमासीदभू-
 
[^१] दर्वीकरपदश्लेषमहिम्ना "मात्रार्पितं गरलमप्यमृतं शिशूनाम्" -- इति वचोविशदीकृतमिति वर्णयति ॥