This page has not been fully proofread.

पश्चमाश्वासः
 
आनम्य किञ्चिदवमुच्य पिधानपात्रं
 
7
 
आदाय रत्नकलशादमृतं समग्रम् ।
 
दर्ज्या मणीखचितया ददती सुरेषु
 
दिव्या कला भुवि चचार तटिलतेव ॥ ४९ ॥
 
मातापित गरळमप्यमृतं शिशूनां
 
इत्यामनन्ति यदिदं विशदं तदासीत् ।
'दवींकरत्वमपि सा दधती यदित्थं
 
दिव्यं ददावमृतमेव शिशुष्वमीषु ॥ ५० ॥
 
चिद्रूपा: ज्ञानरूपा परमा उत्कृष्टा पुरभिद: त्रिपुरध्वंसिनः कला अंशरूपा
सा परदेवता तु मम चित्ते आस्ते वर्तत ध्येयतयेति भावः ॥ आनम्येति ॥
किञ्चिदीषदानम्य आनतिं कृत्वा पिधानमाच्छादनभूतं तदुपरि घटितं पात्र अवमुच्य
विस्रस्य मणिभिः रत्नैः खचिता प्रत्युप्ता तथाभूतया दर्ग्या समग्र सकलं
अमृतमादाय सुरेषु ददती वितरन्ती दिव्या प्रकाशमाना कला ईशांशभूता मोहिनी
तटिलतेव भुवि चचार सञ्चचारेत्यर्थ: । परिवेषणार्थमिति भावः । तथा चोक्तं
देवीभागवते 'पङ्क्तिशः पर्यवस्थाप्य देवेभ्यः पर्यवेषयत् । परिविष्ट
तदमृतं जनन्या दर्विहस्तया ॥ भुज्यमानास्तदा देवीं ध्यायन्तो लोकमातरम् । देवा
बुबुधिरे बुद्ध्या महालक्ष्मीकृपावशात् ॥ पञ्चब्रह्मासनासीनां परब्रह्मस्वरूपिणीम् । '
 
॥ मात्रेति ॥ यद्यस्मात् दर्वी करे यस्यास्सा दर्वीकरा तस्याः भावस्तत्त्वम् । तत्
हस्ते दवमिति फलितार्थः । अन्यत्र दवकरस्सर्पः तस्य भावस्तत्त्वम् । 'दवकरो
दीर्घपृष्ठः' इत्यमरः। दघत्यपि धृतवत्यपि सा परदेवता शिशुषु पृथुकेषु । 'पृथुक-
इशाबक शिशशुः' इत्यमरः । अमीषु देवेषु विषये दिव्यमुत्कृष्टं अमृतं ददौ विततार
तत्तस्मात् मात्रा जनन्या, अर्पितं वितीर्णमित्यर्थः । गरळं विषमपि । 'क्ष्वेळस्तु
गरळं विषम्' इत्यमरः । शिशूनां अमृतं पीयूषम् । 'पीयूषममृतं सुधा' इत्यमरः ।
भवति इत्थं यद्वचनमामनन्ति प्रवदन्तीत्यर्थः । तदिंदं वचः विशदं विस्पष्टमासीदभू-
1. 'दर्वी करपद श्लेषमहिम्ना "मात्रार्पित गरलमप्यमृतं शिशूनाम्" - इति वचो-
विशदीकृतमिति वर्णयति ॥