2023-09-01 10:21:49 by Bharadwajraki
This page has been fully proofread twice.
त्युपलालयन्तस्तदीयं वचनम्, द्वेधा पङ्क्तीभूय, देवासुराः प्रथममेव सन्तर्पिता वागमृतैः, प्रतीक्षाञ्चक्रिरे परिवेष्यमाणं कलशामृतम् । ततश्च सा सन्निहितसखीकरन्यस्तकन्दुका ससम्भ्रमोपनतचेटीजनामृष्टमुखमण्डली प्रत्यग्रकर्पूरपरागपरिधौतकरपल्लवा भ्रूभङ्गचोदितभुजिष्यजनोपहृतममृतकलशमादाय भुवनत्राणबद्धकङ्कणेन सव्येन[^१] पाणिना, दर्वीकरशिरोरत्ननिर्मितां दर्वीमनुगृह्णन्ती दक्षिणेन करेण, नीवीपदनिगूहितोत्तरासङ्गपल्लवा, वेणीदृढग्रन्थितविस्रंसमानकुसुमदाममनोहरा, निस्त-
[commentary]
॥ ततः इति ॥ तत एवं व्यवस्थाऽनन्तरं तस्या मायाया इदं तदीयं वचनं साधु साध्विति अतिसमीचीनमित्यर्थः । उपलालयन्तः प्रशंसन्तः, देवासुराः द्वेधा पङ्क्तीभूय द्वे पङ्क्ती कृत्वा प्रथममादौ वाच एवामृतानि वागमृतानि तैस्तर्पिताः साहित्यं गमिता एवेत्यर्थः । परिवेष्यमाणं कलशामृतं प्रतीक्षाञ्चक्रिरे प्रतिपालयामासुरित्यर्थः ॥ तत् इति ॥ ततोऽनन्तरं च सन्निहिता निकटवर्तिनी या सखी वयस्या तस्याः करो हस्तः तस्मिन् विन्यस्तः निक्षिप्तः कन्दुको यथा सा तथाभूता । सम्भ्रमः त्वरा तेन उपनता प्राप्ता या चेटी दासी तस्याः करौ हस्तौ ताभ्यामामृष्टं अपगतस्वेदीकृतं मुखमण्डलं यस्यास्सा । चेटीजनामृष्टेत्यपि पाठः । दासीजनैरामृष्टमित्यर्थः । स्वेदापनोदनार्थं चेटीकराभ्यां मुखमार्जनमिति भावः । प्रत्यग्रमभिनवं यत् कर्पूरं तस्य ये परागाः तैः परिधौतौ क्षाळितौ करपल्लवौ यस्या सा तथा भूता । भ्रुवोः भङ्गः चालनं तेन चोदिताः प्रेरिताः ये भुजिष्यजनाः परिचारकजनाः । 'भुजिष्यपरिचारकाः' इत्यमरः । तैरुपहृतः आनीतः यः अमृतकलशः तमादाय स्वीकृत्य भुवनानां लोकानां त्राणं संरक्षणं तस्मिन् विषये बद्धं कङ्कणं करभूषणं येन स तथाभूतेन सव्येन पाणिना वामहस्तेन । 'वामं शरीरे सव्यं स्यात्' इत्यमरः । दर्वीकराः सर्पाः । 'दर्वीकरो दीर्घपृष्ठः' इत्यमरः । तेषां शिरोरत्नानि शिरोमाणिक्यानि तैः निर्मिता विरचिता तथाभूतां दर्वीं कम्बिमित्यर्थः । 'दर्वी कम्बिः खजाका च स्यात्' इत्यमरः । तां दक्षिणेन करेण गृह्णन्ती धरन्तीत्यर्थः । नीवी कटीवस्त्रबन्धधः सैव पदं स्थानम् । 'स्त्रीकटीवस्त्रबन्धेऽपि नीवी परिपणेऽपि च' इत्यमरः । तस्मिन् निगूहितः सङ्घटितः उत्तरा-
[^१] परिवेषणकालीनशोभां वर्णयति कविः । "देवीं दिव्यरसान्तपूर्णकरकां ध्यायेत्परामम्बिकाम्" -- इति च सूक्तिः ॥
[commentary]
॥ ततः इति ॥ तत एवं व्यवस्थाऽनन्तरं तस्या मायाया इदं तदीयं वचनं साधु साध्विति अतिसमीचीनमित्यर्थः । उपलालयन्तः प्रशंसन्तः, देवासुराः द्वेधा पङ्क्तीभूय द्वे पङ्क्ती कृत्वा प्रथममादौ वाच एवामृतानि वागमृतानि तैस्तर्पिताः साहित्यं गमिता एवेत्यर्थः । परिवेष्यमाणं कलशामृतं प्रतीक्षाञ्चक्रिरे प्रतिपालयामासुरित्यर्थः ॥ तत् इति ॥ ततोऽनन्तरं च सन्निहिता निकटवर्तिनी या सखी वयस्या तस्याः करो हस्तः तस्मिन् विन्यस्तः निक्षिप्तः कन्दुको यथा सा तथाभूता । सम्भ्रमः त्वरा तेन उपनता प्राप्ता या चेटी दासी तस्याः करौ हस्तौ ताभ्यामामृष्टं अपगतस्वेदीकृतं मुखमण्डलं यस्यास्सा । चेटीजनामृष्टेत्यपि पाठः । दासीजनैरामृष्टमित्यर्थः । स्वेदापनोदनार्थं चेटीकराभ्यां मुखमार्जनमिति भावः । प्रत्यग्रमभिनवं यत् कर्पूरं तस्य ये परागाः तैः परिधौतौ क्षाळितौ करपल्लवौ यस्या सा तथा भूता । भ्रुवोः भङ्गः चालनं तेन चोदिताः प्रेरिताः ये भुजिष्यजनाः परिचारकजनाः । 'भुजिष्यपरिचारकाः' इत्यमरः । तैरुपहृतः आनीतः यः अमृतकलशः तमादाय स्वीकृत्य भुवनानां लोकानां त्राणं संरक्षणं तस्मिन् विषये बद्धं कङ्कणं करभूषणं येन स तथाभूतेन सव्येन पाणिना वामहस्तेन । 'वामं शरीरे सव्यं स्यात्' इत्यमरः । दर्वीकराः सर्पाः । 'दर्वीकरो दीर्घपृष्ठः' इत्यमरः । तेषां शिरोरत्नानि शिरोमाणिक्यानि तैः निर्मिता विरचिता तथाभूतां दर्वीं कम्बिमित्यर्थः । 'दर्वी कम्बिः खजाका च स्यात्' इत्यमरः । तां दक्षिणेन करेण गृह्णन्ती धरन्तीत्यर्थः । नीवी कटीवस्त्रबन्
[^१] परिवेषणकालीनशोभां वर्णयति कविः । "देवीं दिव्यरसान्तपूर्णकरकां ध्यायेत्परामम्बिकाम्" -- इति च सूक्तिः ॥