This page has not been fully proofread.

पञ्चमोश्वासः
 
२७९
 
त्युपलालयन्तस्तदीयं वचनम्, द्वेधा पङ्क्तीभूय, देवासुराः प्रथममेव
सन्तर्पिता वागमृतैः, प्रतीक्षाञ्चक्रिरे परिवेष्यमाणं कलशामृतम् । ततश्च
सा: सन्निहितसखीकरन्यस्तकन्दुका ससम्भ्रमोपनतचेटीजनामृष्टमुख-
मण्डली प्रत्यग्रकर्पूरपरागपरिधौतकरपल्लवा भ्रूभङ्गचोदितभुजिष्यजनोप-
हृतममृतकलशमादाय भुवनत्राणबद्धकङ्कणेन सव्येन' पाणिना, दर्वीकर-
शिरोरत्ननिर्मितां दवमनुगृह्णन्ती दक्षिणेन करेण, नीवीपदनिगूहितोत्त-
रासङ्गपल्लवा, वेणीदृढग्रन्थितविस्रंसमानकुसुमदाममनोहरा, निस्त-
॥ ततः इति ॥ तत एवं व्यवस्थाऽनन्तरं तस्या मायाया इदं तदीयं वचनं
साधु साध्विति अतिसमीचीनमित्यर्थः । उपलालयन्तः प्रशंसन्तः, देवासुराः द्वेधा
पक्तीभूय द्वे पङ्क्ती कृत्वां प्रथममादौ वाच एवामृतानि वागमृतानि तैस्तर्पिताः
साहित्यं गमिता एवेत्यर्थः । परिवेष्यमाणं कलशामृतं प्रतीक्षाञ्चकिरे प्रतिपाल-
यामासुरित्यर्थः ॥ तत् इति ॥ ततोऽनन्तरं च सन्निहिता निकटवर्तिनी या
सखी वयस्या तस्याः करो हस्तः तस्मिन् विन्यस्तः निक्षिप्तः कन्दुको यथा सा
तथाभूता । सम्भ्रमः त्वरा तेन उपनता प्राप्ता या चेटी दासी तस्याः करौ हस्तौ
ताभ्यामामृष्ट अपगतस्वेदीकृतं मुखमण्डलं यस्यास्सा । चेटीजनामृष्टेत्यपि पाठः ।
दासीजनैरामृष्टमित्यर्थः । स्वेदापनोदनार्थं चेटीकराभ्यां मुखमार्जन मिति भावः ।
प्रत्यप्रमभिनवं यत् कर्पूरं तस्य ये परागाः तैः परिधौतौ क्षाळितौ करपल्लवौ
यस्या सा तथा भूता । भ्रुवोः भङ्गः चालनं तेन चोदिताः प्रेरिताः ये भुजिष्य जनाः
'परिचारकजना: । 'भुजिष्यपरिचारकाः' इत्यमरः । तैरुपहृतः आनीतः यः
अमृतकलश: तमादाय स्वीकृत्य भुवनानां लोकानां त्राणं संरक्षणं तस्मिन् विषये
बद्ध-कङ्कणं करभूषणं येन स तथाभूतेन सव्येन पाणिना वामहस्तेन । 'वामं
शरीरे सव्यं स्यात्' इत्यमरः । दवींकरा: सर्पाः । 'दवींकरो दीर्घपृष्ठः' इत्यमरः ।
तेषां शिरोरत्नानि शिरोमाणिक्यानि तैः निर्मिता विरचिता तथाभूतां दवीं
'कम्बिमित्यर्थः । 'दव कम्बि: खजाका च स्यात्' इत्यमरः । तां दक्षिणेन करेण
'गृह्णन्ती घरन्तीत्यर्थः । नीवी कटीवस्त्रबन्ध सैव पदं स्थानम् । 'स्त्रीकटीव-
स्रबन्धेऽपि नीवी परिपणेऽपि च ' इत्यमरः । तस्मिन् निगूहितः सङ्घटित: उत्तरा-
:
 
1. परिवेषणकालीनशोभां वर्णयति कविः । " देवीं दिव्यरसान्तपूर्णकरकां ध्याये-
प्रत्रामम्बिकाम्" इति च सूक्तिः ॥