2023-09-01 10:00:29 by Bharadwajraki
This page has been fully proofread twice.
त्वद्दासास्स्मः त्वत्कटाक्षप्रतीक्षाः
त्वं यद्ब्रूयास्तत्प्रमाणं परं नः ॥ ४७ ॥'
इति निश्शेषनिवेदितात्मसु दानवेषु, किं करिष्यति किं वक्ष्यतीति कृतसंशयेषु दिक्पालेषु, मन्दस्मितसुन्दरमिदमाह महामाया[^१] ।
'हन्त कथमभिज्ञाततत्त्वां अपि भवन्तः पौरोगवा इव पाकशेषेषु कलशामृते कलहायन्ते । तदलमुपविशत यूयमुभयेऽपि वीथीभूय, प्रदास्याम्यहमेव भवतामिदं कलशामृतम् । तत्र च प्रथममिमानन्नार्थिनः पदभ्रष्टानग्रभिक्षया परिविष्य, पात्रेणैव भवत्सूपतिष्ठे' इति । ततश्च साधु साध्वि-
[commentary]
मन्तरात्मा जीवश्च भवसीत्यर्थः | (त्वयि सत्येव इदमस्माकं)? त्वत्कटाक्षप्रतीक्षास्त्वदपाङ्गप्रसाराभिलाषुकाः त्वद्दासास्त्वत्किङ्कराः स्मः । त्वं यद्वचनं ब्रूयाः तत्परं नः प्रमाणं भवद्वचनोल्लङ्घनं न कुर्म इति भावः ॥ इतीति ॥ इति इत्थं दानवेषु निश्शेषं निरवशेषं यथा तथा निवेदितः विज्ञापितः आत्मा स्वस्वनिश्चयः यैस्तथाभूतेषु सत्सु दिशां पालकाः इन्द्रादयः ते किं वक्ष्यति किं कथयिष्यति किं वा करिष्यति इतीत्थं कृतः संशयः यैस्तथाभूतेषु सत्सु महामाया आदिप्रकृतिरूपिणी परदेवता मन्दस्मितेन सुन्दरं चार्वित्यर्थः । तथाभूतमिदं वचनं आह कथयामासेत्यर्थः ॥ हन्तेति ॥ अभिज्ञातं विदितं तत्त्वं पदार्थस्वरूपं यैस्ते तथाभूता अपि भवन्तः यूयं पाकस्य अवशेषाः अवशिष्टांशाः शाकसूपादयः तेषु पौरोगवा इव महानसाध्यक्षा इव । 'पाकस्थानं महानसम् । पौरोगवस्तदध्यक्षः' इत्यमरः । कलशामृते एककुम्भपरिमितामृतविषयेऽपि कथं कलहायन्ते कलहं कुर्वन्तीत्यर्थः । हन्तेत्याश्चर्ये ॥ तदिति ॥ तत्तस्मादुभयेऽपि यूयं भवन्तः वीथीभूय
द्वे पङ्क्ती भूत्वेत्यर्थः । उपविशत उपवेशं कुरुतेत्यर्थः । अहमेव भवतामिदं कलशामृतं प्रदास्यामि परिवेषणं करिष्यामीत्यर्थः ॥ तत्र चेति ॥ तदानीं त्वित्यर्थः । पदभ्रष्टान् स्थानभ्रष्टान् अत एव अन्नमर्थितुं याचितुं शीलं येषां ते तथा तादृशानिमान् देवान् प्रथममादौ अग्रभिक्षा अग्रपरिवेषणं तया परितोष्य तोषयित्वा । पात्रं अमृतकलशः तेन सहैव भवत्सु युष्मासु विषये उपतिष्ठे समीपे तिष्ठामीत्यर्थः
[^१] महामायया दानवाः मोहिताः, दिक्पालादयो देवाः संशयाविष्टाः, तत्त्वज्ञानं न कस्यापि तदा -- इति मायामहिमानमाह कविः ॥