This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
त्वद्दासास्स्मः त्वत्कटाक्षप्रतीक्षाः
 
३७८
 

त्वं यद्भूयास्त ब्रूयास्तत्प्रमाण परणं परं नः ॥ ४७ ॥'
 

 
इति निश्शेषनिवेदितात्मसु दानवेषु, किं करिष्यति किं वक्ष्यतीति
कृतसंशयेषु दिक्पालेषु, 'मन्दस्मितसुन्दरमिदमाह महामाया' ।
 
[^१] ।
 
'हन्त कथमभिज्ञाततत्त्वां अपि भवन्तः पौरोगवा इव पाकशेषेषु कल-
शामृते कलहायन्ते । तदलमुपविंविशत यूयमुभयेऽपि वीथीभूय, प्रदास्याम्यह-
मेव भवतामिदं कलशामृतम् । तत्र च प्रथममिमानन्नार्थिन:नः पदभ्रष्टान-
ग्रभिक्षया परिविष्य, पात्रेणैव भवत्सूपतिष्ठे' इति । ततश्च साधु साध्वि-

 
[commentary]
 
मन्तरात्मा जीवश्च भवसीत्यर्थः "| (त्वयि सत्येव इदमस्माकं):? त्वत्कटाक्ष
प्रतीक्षास्त्वदपाङ्गप्रसाराभिलाषुकाः त्वद्दासास्त्वत्किङ्कराः स्मः । त्वं यद्वचनं ब्रूयाः
तत्परं नः प्रमाणं भवद्वचनोल्लङ्घनं न कुर्म इति भावः ॥ इतीति ॥ इति इत्थं
दानवेषु निश्शेषं निरवशेषं यथा तथा निवेदितः विज्ञापित:तः आत्मा स्वस्व-
निश्चयः यैस्तथाभूतेषु सत्सु दिशां पालकाः इन्द्रादयः ते किकिं वक्ष्यति किं कथ-
यिष्यति किं वा करिष्यति इतीत्थं कृतः संशयः यैस्तथाभूतेषु सत्सु महामाया आदि-
प्रकृतिरूपिणी परदेवता मन्दस्मितेन सुन्दरं चार्वित्यर्थः । तथाभूतमिदं वचनं
आह कथयामा सेत्यर्थः ॥ हन्तेति ॥ अभिज्ञातं विदितं तत्त्वं पदार्थस्वरूपं यैस्ते
 
2
 
P2
 
तथाभूता अपि भवन्तः यूयं पार्कस्य अवशेषाः अवशिष्टांशाः शाकसूपादयः
तेषु पौरोगवा इव महानसाध्यक्षा इव । 'पाकस्थानं महानसम् । पौरोगवस्तदध्यक्षः
' इत्यमरः । कलशामृते एककुम्भपरिमितामृतविषयेऽपि कथं कलहायन्ते कलहं कुर्व-
न्तीत्यर्थ:थः । हन्तेत्याश्चर्ये ॥ तदिति ॥ तत्तस्मादुभयेऽपि यूयं भवन्तः वीथीभूय

द्वे पङ्क्ती भूत्वेत्यर्थः । उपविशत उपवेशं कुरुतेत्यर्थः । अहमेव भवतामिदं कलशा-
मृतं प्रदास्यामि परिवेषणं करिष्यामीत्यर्थः ॥ तत्र चेति ॥ तदानीं त्वित्यर्थः । पद-
भ्रष्टान् स्थानभ्रष्टान् अत एव अन्नमर्थितुं याचितुं शीलं येषां ते तथा तादृशानि-
मान् देवान् प्रथममादौ अग्रभिक्षा अग्रपरिवेषणं तया परितोष्य तोषयित्वा । पात्
रं अमृतकलशः तेन सह्रैहैव भवत्सु युष्मासु विषये उपतिष्ठे समीपे तिष्ठामीत्यर्थः
 
1.

 
[^१]
महामायया दानवाः मोहिताः, दिक्षापालादंयो देवाः संशयाविष्टाः, तत्त्वज्ञानं
 
J
 
न कस्यापि तदा - इति मायाम - इति मायामहिमानमाह कविः ॥
 
-