2023-09-01 09:36:15 by Bharadwajraki
This page has been fully proofread twice.
विहारवनोपकण्ठमसृग्वसामांसकर्दमैरभिपूरयथ' इति । आकर्ण्य च तां गिरमतिभूमिं मनोरथानां अभ्यर्हिताममृतादपि दानवा इदमूचिरे ।
'निर्वासिता निजपदात् त्रिदिवौकसोऽमी
प्राप्ता वयं भुजबलेन पदं मघोनः ।
सर्वेऽप्यमी सुमुखि दानवदैत्यसङ्घाः
सत्यं वदेम तव सम्प्रति किङ्करास्स्मः ॥ ४६ ॥
किं बहुना ।
त्वं नो राज्यं त्वं बलं त्वं धनानि
त्वं नः प्राणास्त्वं भवस्यन्तरात्मा ।
[commentary]
धनुराद्यायुधवहनसामर्थ्यादेरदृष्टत्वादिति भावः । लक्ष्यध्वे दृश्यध्वे ॥ किमिति ॥ विस्रब्धं विश्वासः, भावे क्तप्रत्ययः, तेन सञ्चरितुं शीलं यासां ताः तथाभूतानां बालिकानामस्मदादीनामित्यर्थः । विहारः क्रीडा तदर्थं वनं तस्योपकण्ठं अन्तिकभुवं किंकारणं किन्निमित्तमित्यर्थः । असृक् रक्तं तच्च वसा हृदयस्थमेदोधातुः सा च मांसं पिशितं तच्च तानीति द्वन्द्वः । तेषां कर्दमाः पङ्काः तैः । 'रुधिरेऽसृग्रोहितास्ररक्तक्षतजशोणितम्' 'पिशितं तरसं मांसम्' 'हृन्मेदस्तु वपा वसा' 'पङ्कोऽस्त्री शादकर्दमौ' इति सर्वत्रामरः । अभिपूरयथ दुर्गन्धविशिष्टं कुरुथेत्यर्थः । इति इत्थं व्याजहारेति पूर्वेणान्वयः । युद्धादिनेति भावः ॥ आकर्ण्येति ॥ मनोरथानां सङ्कल्पानामित्यर्थः । अतिक्रान्ता भूमिं मर्यादामित्यतिभूमिः तथाभूता एवंविधा या गीः कदाप्यश्रुतत्वादुपेक्षितुमप्यशक्येति भावः । अमृतादपि अभ्यर्हितामावश्यकीमित्यर्थः । तां मोहिनीसम्बन्धिनीं गिरं वाचमाकर्ण्य श्रुत्वा दानवा
इदमूचुः निजगदुरित्यर्थः ॥ निर्वासिता इति ॥ अमी निजपदात् स्वस्थानात् स्वर्गादित्यर्थः । निर्वासिताः निष्कासिता इत्यर्थः । अस्माभिरिति शेषः । हे सुमुखि सर्वे वयमपि भुजबलेन बाहुसामर्थ्येन मघोनः इन्द्रस्य पदं स्थानं स्वर्गमित्यर्थः । प्राप्ताः । दानवाश्च दैत्याश्च दानवदैत्याः तेषां सङ्घाः समूहाः सत्यं वदेम सत्यं लपेमेत्यर्थः । सम्प्रति इदानीं तव किंकराः भृत्याः स्मः भवामः । 'नियोज्यकिंकरप्रेष्यभुजिष्यपरिचारकाः' इत्यमरः । त्वं यथा वदसि तत्करवामेति भावः ॥ त्वमिति ॥
नोऽस्माकं त्वं राज्यं त्वं बलं सामर्थ्यं धनानि नोऽस्माकं त्वं प्राणाः त्वमस्माक-