This page has not been fully proofread.

पञ्चमाश्वासः
 
३७७
 
विहारवनोपकण्ठम सृग्वसामांसकर्दमैरभिपूरयथ' इति । आकर्ण्य च तां
गिरमतिभूमि मनोरथानां अभ्यर्हिता ममृतादपि दानवा इदमूचिरे ।
' निर्वासिता निजपदात् त्रिदिवौकसोऽमी
प्राप्ता वयं भुजबलेन पदं मघोनः ।
सर्वेऽप्यमी सुमुखि दानवदैत्यसङ्घाः
 
सत्यं वदेम तव सम्प्रति किङ्करास्स्मः ॥ ४६ ॥
 
किंबहुना ।
त्वं नो राज्यं त्वं बलं त्वं धनानि
 
त्वं नः प्राणास्त्वं भवस्यन्तरात्मा ।
 
F
 
धनुराद्यायुधवहनसामर्थ्यादेरदृष्टत्वादिति भावः । लक्ष्यध्वे दृश्यध्वे ॥ किमिति ॥
विसब्धं विश्वासः, भावे क्तप्रत्ययः, तेन सञ्चरितुं शीलं यासां ताः तथाभूतानां
बालिका नामस्मंदादीनामित्यर्थः । विहारः क्रीडा तदर्थं वनं तस्योपकण्ठं अन्तिक
भुव किंकारण किन्निमित्तमित्यर्थः । असृक् रक्तं तच्च वसा हृदयस्थमेदोघातुः सा
च मांसं पिशितं तच्च तानीति द्वन्द्वः । तेषां कर्दमाः पङ्काः तैः । 'रुधिरेऽसृग्रो-
'हितास्ररक्तक्षतजशोणितम्' 'पिशित तरसं मांसम्' हृन्मेदस्तु वपा वसा' 'पकोऽस्त्री
'शांदकर्दमौ' इति सर्वत्रामरः । अभिपूरयथ दुर्गन्ध विशिष्ट कुरुथेत्यर्थः । इति इत्थं
'व्याजहारेत पूर्वेणान्वयः । युद्धादिनेति भावः ॥ आकयेति ॥ मनोरथानां
सङ्कल्पानामित्यर्थः । अतिक्रान्ता भूमिं मर्यादामित्यतिभूमिः तथाभूता एवंवि
घां या गी: कदाप्यश्रुतत्वादुपेक्षितुमप्यशक्येति भावः । अमृतादपि अभ्य-
'हिंतामावश्यकीमित्यर्थः । तां मोहिनीसम्बन्धिनीं गिरं वाचमाकर्ण्य श्रुत्वा दानवा
इदमूचुः निजगदुरित्यर्थः ॥ निर्वासिता इति ॥ अमी निजपदात् स्वस्थानात्
स्वर्गादित्यर्थः । निर्वासिताः निष्कासिता इत्यर्थः । अस्माभिरिति शेषः । हे सुमुखि
सर्वे वयमपि भुजबलेन बाहुसामर्थ्येन मघोनः इन्द्रस्य पदं स्थानं स्वर्गमित्यर्थः ।
* प्राप्ताः । दानवांश्च दैत्याश्च दानवदैत्याः तेषां सङ्घाः समूहाः सत्यं वदेम सत्यं लपे-
'मेत्यर्थः । सम्प्रति इदानीं तव किंकरा: भृत्याः स्मः भवामः । 'नियोज्यकिंकरप्रेष्य-
भुजिष्यपरिचारकाः' इत्यमरः । त्वं यथा वदसि तत्करवामेति भावः ॥ त्वमिति ॥
नोऽस्माकं त्वं राज्यं त्वं बलं सामर्थ्य घनानि नोऽस्माकं त्वं प्राणाः त्वमस्माक-
N - 48