2023-09-01 09:10:10 by Bharadwajraki
This page has been fully proofread twice.
पश्यन्तश्च तां परिसर एवं चरन्तीं प्राणशक्तिमिव पञ्चशरस्य, भाग्यदेवतामिव शृङ्गाररसस्य, बालिकामुपेक्षितुं सुधाकलशमुदासितुं च तस्यामपारयन्तः क्षणमनुबभूवुस्संशयान्दोळनं यावदसुवराः ;
तावद्वावत्कन्दुकग्राहमोह-
व्याजात् प्राप्ता मध्यमेषां द्वयेषाम्[^१] ।
सिञ्चन्तीव व्याजहारामृतोघैः
शस्त्राशस्त्रिक्लेशितान्यङ्गकानि ॥ ४५ ॥
'के यूयमाधिकारिका इव विगृह्णन्त इव विषण्णा इव संरम्भमात्रशेषा इव च लक्ष्यध्वे । किं कारणं विस्रब्धविहारिणीनां बालिकानां
[commentary]
त्यर्थः । के वा विबुधाः तां परदेवतेति न जानन्तीत्यभिप्रायः ॥ पश्यन्त इति ॥ परिसरः समीपदेशः । 'पर्यन्तभूः परिसरः' इत्यमरः । तस्मिन्नेव चरन्तीं सञ्चरन्तीं पञ्चशरस्य पुष्पधन्वनः प्राणशक्तिं प्राणोज्जीवनशक्तिमिव स्थितां प्राणप्रतिष्ठापकपरदेवतामिव स्थितामिति यावत् । शृङ्गाररसस्य भाग्यमदृष्टं तस्य देवता । 'दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः' इत्यमरः । भाग्यवशात्प्राप्तदेवतेव स्थितेत्यर्थः । तथाभूतां तां मोहिनीं पश्यन्तश्च असुरवराः यातुधानाः सुधाकलशं अमृतपूरितकुम्भं बालिकामुपेक्षितुं उदासितुमपि निराकर्तुं अपारयन्तः क्षणं यावत्संशयेनान्दोळनं डोलाविहारं तस्यामनुबभूवुः ॥ तावदिति ॥ तावत्, धावन् झडिति अन्यतो गच्छन् यः कन्दुकः तस्य ग्राहः ताडनार्थं ग्रहणार्थं तस्मिन् मोहः व्यामोहः स एव व्याजः छद्म तस्माद्द्वयानामुभयेषां देवासुराणामित्यर्थः । मध्यं मध्यदेशं प्राप्ता सा देवी । शस्त्रैः शस्त्रैः प्रहृत्येदं युद्धं प्रवर्तत इति शस्त्राशस्त्रि तत्संज्ञिकं यद्युद्धम्, तेन क्लेशितानि क्लेशं गमितानीत्यर्थः । तथाभूतानि अङ्गकानि अवयवान् । 'अङ्गं प्रतीकोऽवयवः' इत्यमरः । अमृतानामोघास्समूहाः तैस्सिञ्चन्तीव सेकं कुर्वन्तीवेत्यर्थः । व्याजहार आबभाष इत्यर्थः ॥ इति ॥ यूयं के। अधिकारे तिष्ठन्तीत्याधिकारिकाः अधिकारस्था इव । किं च विगृह्णन्त इव युद्धं कुर्वन्त इव । शस्त्रादिमत्त्वादिति भावः । संरम्भमात्रं उद्योगमात्रं तेन शिष्यन्तीति संरम्भमात्रशेषाः उद्योगस्पर्धादिमात्रावशिष्टा इवेति तात्पर्यार्थः । शस्त्र-
[^१] 'द्वयानाम्' इति व्याख्यापाठः ।