This page has been fully proofread once and needs a second look.

३७५
 
पश्चमाश्वासः
 
'
स्वच्छन्द प्रचलत्सुधार्णवसुधाकल्लोलवल्लोलया
 

सन्दृष्टाः शुभया दृशा सुमनसो धन्या जनन्या तया ।

पञ्चब्रह्मविनिर्मितासनपरब्रह्माङ्कपर्यङ्कि
 
नीं
पञ्चाम्नायशिरोगतां बुबुधिरे तां ते परां देवताम् ॥ ४४ ॥
 

 
[commentary]
 
उत्सृष्टकूल:लः कल्याणी, भैरव्यादिरागो यस्य तत्तथाभूतम् । अत एव चित्रमाश्च.
र्यकरं किमपि कैरप्यश्रुतं कदापि गन्धर्वादिभिरप्यननुभूतं कीर्तनं वर्णता-
नादिकमित्यर्थः । उद्गायन्ती उत्कृष्टगानं कुर्वन्ती सा मोहनरूपा कन्यका
दारुणं भयङ्करम् । 'दारुणं भीषणं भीष्मम्' इत्यमरः । दानवानां कुलं यूथम् ।

'सजातीयैः कुलं यूथम्' इत्यमरः । चित्रन्यस्तं चित्रफलकस्थितमिव अकृत चकारे-
त्यर्थः ॥ स्वेति ॥ जनन्या जगन्मात्रा तथाया मोहिन्या स्वच्छन्देन स्वेच्छया
`
प्रचलन्तः प्रसरन्तः ये सुधार्णवस्य क्षीराम्भोधे
स्सुधाकल्लोलाः अमृततरङ्गाः तैस्तुल्यं
तद्वत् । "'तेन तुल्यं क्रिया चेद्वति: तिः' ( 5-1-115५.१.११५) इति वतिप्रत्यय:यः । लोलया
चञ्चलया शुभया दृशा दृष्ट्या दृष्टाः अवलोकिताः अत एव धन्याः सुकृतिनः ।

'सुकृती पुण्यवान् धन्यः' इत्यमरः । ते सुमनसः देवा:वाः । 'सुपर्वाणस्सुमनसः'
इत्यमरः । पञ्च पञ्चसङ्ख्याका ये ब्रह्माणः सद्योजातादयः तैरेव साधनैर्विनिर्मि
तं यदासनं पञ्चब्रह्माकारमञ्चमित्यर्थः । तथा चोक्तं दूर्वाससा द्विशत्याम् 'पञ्चब्रह्मा-
कार मञ्चरं मञ्चं प्रणमामि मणिराणाकीर्णम्' इति । तादृशासने वर्तमानं यत्परब्रह्म कामेश्वर-
संज्ञिको देव इत्यर्थः । तस्य यः अङ्क:कः ऊरुदेशः स एव पर्यङ्को यस्यास्सा । तथा च
तत्र तेनैवोक्तम् ' मञ्चस्योपरि लम्बन्मल्ली पुन्नागमालिकाभरिताम् । अस्याङ्कभुवि
निषण्णां तरुणकदम्बप्रवाळकिरणाभाम्' इति । तथाभूतामित्यर्थः । किञ्च पञ्च
पञ्चका
पञ्चसङ्ख्याकाः ये आम्नायाः श्रीविद्यामन्त्रस्य[^१] पञ्चदशीसंज्ञिकस्य लिङ्गभूताः
पूर्वाम्नायोत्तराम्नायादयः तेषां यानि शिरांसि शिर : रःस्थानीयकेवलबीजाक्षरबन्धा मन्त्रा
इत्यर्थ:थः । तानि गता प्राप्तेत्यर्थः । तादृशमन्त्र विशेषैः प्रतिपाद्येति भावः । तथा
चोक्तं देवीभागवते 'संविद्रूपा पराशक्तिस्सैव सर्वेश्वरेश्वरी । परब्रह्माङ्कपर्यङ्का पञ्चा-
म्नायशिरोगता' इति । तथाभूतां परां सर्वोत्कृष्टां देवतामिति बुबुधिरे विविदुरि-
i.

 
[^१]
मोहिनीं पञ्चादशाक्षरीप्रतिपाद्यां ललितां वर्णयति । एतत्पद्यार्थः ललितासहस्र-
नामपरिशीलने सुविशदः स्यात् ॥