2023-07-27 13:05:23 by Bharadwajraki
This page has been fully proofread twice.
इदं च परमाद्भुतमुत्प्रेक्षितं तस्यां, यत्किल विविधतपःप्रबन्धनिस्तन्द्रतया विस्मृतलोकतन्त्रेषु, चिरविधृतब्रह्मचर्यजीर्णतया कालमृत्युषु कन्दर्पस्य, ब्रह्मर्षिहतकेषु, भूतलादागत्य प्रसक्तेषु क्रीडितुमप्सरोभिः, पर्णशालां प्रविशाम इति प्रविशत्सु केळीगृहं विस्रंसय जटामिति वेणीमालम्बमानेषु, अपनय वल्कलमित्यपनेतुकामेषु कुचदुकूलानि, न लोहितं कुर्यादिति निषेधत्सु नखक्षतानि, आः कष्टमसम्मतोऽयं पन्थाश्शिष्टानामिति पिहितकर्णेषु चुम्बनभेदप्रस्तावनायां, निवीतधारणव्यग्रेषु नीवीमोचनावसरे, मन्त्रजपमुखरेषु मणितावसरे, आः
[Ccommentary]
तस्याममरावत्यां, इदं वक्ष्यमाणं परमाद्भुतं, उत्प्रेक्षितं संभावितम् । विविधानि तपांसि कृच्छ्रचान्द्रायणादीनि तेषां प्रबन्धः अविच्छेदः, तत्र निस्तन्द्रा जागरूकाः तेषां भावस्तत्ता तया । विस्मृतानि अध्यातानि लोकतन्त्राणि लोकव्यापारा यैस्तेषु, चिरविधृतं यद्ब्रह्मचर्यमुपस्थेन्द्रियनिग्रहः । अथवा अष्टाङ्गमैथुनत्यागः, तदुक्तं 'स्मरणं कीर्तनं केळिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥' इति । तेन जीर्णतया क्षपितयौवनवयस्कतया, कन्दर्पस्य मन्मथस्य कालमृत्युषु प्रळयकालमृत्युतुल्येषु । हतकाश्च ते ब्रह्मर्षयश्चेति विशेष[^१]णोत्तरपदोऽयं समासः । मारीचनीच इतिवत् हतकशब्दः कुत्सावाची, हतविधिरितियावत्, तथा च कुत्सितब्रह्मर्षिष्वित्यर्थः । भूतलादागत्य अप्सरोभिस्सह क्रीडितुं प्रसक्तेषु उपक्रान्तेषु सत्सु । कर्तरि क्तः । प्राक्तनवासनायाः दुस्त्यजत्वात्तद्वशादेव पर्णशालां प्रविशाम इति कथयत्स्वेव केळीगृहं प्रविशत्सु । जटां विस्रंसय
विमोचयेति कथयत्स्वेव वेणीमालम्बमानेषु गृह्णत्सु सत्सु । वल्कलमपनय अपसारय, त्यजेति यावत् । इति कथयत्स्वेव कुचदुकूलानि स्तनांशुकानि अपनेतुकामेषु अपनिनीषत्सु सत्सु । "तुंकाममनसोरपि" इति मकारलोपः । लोहितमस्रं न कुर्यात्न पातयेदिति नखक्षतानि निषेधत्सु सत्सु । आः खेदे निपातः । अयं वात्स्यायनतन्त्रसिद्धः चुम्बनादिर्बन्धादिश्च शिष्टानां वेदविदामसम्मतः पन्थाः अनभिमतो
[^१] मयूरव्यंसकादित्वात् समासः इति भावः ।
व्यंसको (धूर्तः) मयूरः - मयूरव्यंसकः इतिवत् विशेषणस्य परनिपातः । "विशेषणं विशेष्येण बहुलम्" "नीलोत्पलम्" इतिवन्नेति यावत् ॥
[