2023-07-07 06:54:57 by Bharadwajraki
 
This page has been fully proofread once and needs a second look.
  
  
  
  नीलकण्ठविजये सव्याख्याने
  
  
  
   
  
  
  
  9
  
  
  
   
  
  
  
  इदं च परमाद्भुतमुत्प्रेक्षितं तस्यां, यत्किल विविधतपःप्रबन्ध-
  
  
  
  निस्तन्द्रतया विस्मृतलोकतन्त्रेषु, चिरविघृधृतब्रह्मचर्यजीर्णतया काल-
  
  
  
  मृत्युषु कन्दर्पस्य, ब्रह्मर्षिहतकेषु, भूतलादागत्य प्रसक्तेषु क्रीडितुमप्स-
  
  
  
  रोभिः, पर्णशालां प्रविशाम इति प्रविशत्सु केळीगृहं विस्रंसय जटा-
  
  
  
  मिति वेणीमालम्बमानेषु, अपनय वल्कलमित्यपनेतुकामेषु कुचदु-
  
  
  
  कूलानि, न लोहितं कुर्यादिति निषेधत्सु नखक्षतानि, आः कष्टमसम्मतो-
  
  
  
  ऽयं पन्थाश्शिष्टानामिति पिहितकर्णेषु चुम्बनभेदप्रस्तावनायां, निवी-
  
  
  
  तधारणव्यग्रेषु नीवी मोचनावसरे, मन्त्रजप मुखरेषु मणितावसरे, आः
  
  
  
   
  
  
  
  १४
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  [Commentary]
  
  
  
   
  
  
  
  तस्याममरावत्यां, इदं वक्ष्यमाणं परमाद्भुतं, उत्प्रेक्षितं संभावितम् । विविधानि
  
  
  
   तपांसि कृच्छ्रचान्द्रायणादीनि तेषां प्रबन्धः अविच्छेदः, तत्र निस्तन्द्रा जागरूकाः
  
  
  
   तेषां भावस्तत्ता तया । विस्मृतानि अध्यातानि लोकतन्त्राणि लोकव्यापारा
  
  
  
   यैस्तेषु, चिरविधृतं यद्ब्रह्मचर्यमुपस्थेन्द्रियनिग्रहः । अथवा अष्टाङ्गमैथुनत्यागः,
  
  
  
   तदुक्तं 'स्मरणं कीर्तनं केळि:ळिः प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रिया-
  
  
  
  निर्वृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्ट-
  
  
  
  लक्षणम् ॥' इति । तेन जीर्णतया क्षपितयौवनवयस्कतया, कन्दर्पस्य मन्मथस्य
  
  
  
   कालमृत्युषु प्रळयकालमृत्युतुल्येषु । हतकाश्च ते ब्रह्मर्षयश्चेति विशेष [^१]णोचरप-
  
  
  
  त्तरपदोऽयं समासः । मारीचनीच इतिवत् हतकशब्द:दः कुत्सावाची, हतविधिरिति-
  
  
  
  यावत्, तथा च कुत्सितब्रह्मर्षिष्वित्यर्थः । भूतलादागत्य अप्सरोभिस्सह क्रीडितु
  
  
  
  तुं प्रसक्तेषु उपक्रान्तेषु सत्सु । कर्तरि क्तः । प्राक्तनवासनाया:याः दुस्त्यजत्वात्त-
  
  
  
  द्वशादेव पर्णशालां प्रविशाम इति कथयत्स्वेव केळीगृहं प्रविशत्सु । जटां विस्रंसय
  
  
  
  
  
  
  
  विमोचयेति कथयत्स्वेव वेणीमालम्बमानेषु गृहह्णत्सु सत्सु । वहल्कलमपनय अप-
  
  
  
  सारय, त्यजेति यावत् । इति कथयत्स्वेव कुचदुकूलानि स्तनांशुकानि अपनेतुकामेषु
  
  
  
   अपनिनीषत्सु सत्सु । "तुंकाममनसोरपि" इति मकारलोप:पः । लोहितमस्रं न कुर्यात्
  
  
  
  नन  पातयेदिति नखक्षतानि निषेधत्सु सत्सु । आः खेदे निपातः । अयं वात्स्यायन-
  
  
  
  तन्त्रसिद्धः चुम्बनादिर्बन्धादिश्च शिष्टानां वेदविदामसम्मतः पन्थाः अनभिमतो
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  -
  
  
  
   
  
  
  
  1.
  
  
  
   
  
  
  
  [^१] मयूरव्यंसकादित्वात् समासः इति भावः ।
  
  
  
   
  
  
  
  
  
  
  
   
  
  
  
  व्यंसको (धूर्त :तः) मयूर :रः - मयूरव्यंसकः इतिवत् विशेषणस्य परनिपातः । "विशेषणं
  
  
  
   विशेष्येण बहुलम् "
  
  
  
   " " नीलोत्पलम्" इतिवन्नेति यावत् ॥