This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
9
 
इदं च परमाद्भुतमुत्प्रेक्षितं तस्यां, यत्किल विविधतपःप्रबन्ध-
निस्तन्द्रतया विस्मृतलोकतन्त्रेषु, चिरविघृतब्रह्मचर्यजीर्णतया काल-
मृत्युषु कन्दर्पस्य, ब्रह्मर्षिहतकेषु, भूतलादागत्य प्रसक्तेषु क्रीडितुमप्स-
रोभिः, पर्णशालां प्रविशाम इति प्रविशत्सु केळीगृहं विस्रंसय जटा-
मिति वेणीमालम्बमानेषु, अपनय वल्कलमित्यपनेतुकामेषु कुचदु-
कूलानि, न लोहितं कुर्यादिति निषेधत्सु नखक्षतानि, आः कष्टमसम्मतो-
ऽयं पन्थाशिष्टानामिति पिहितकर्णेषु चुम्बनभेदप्रस्तावनायां, निवी-
तधारणव्यग्रेषु नीवी मोचनावसरे, मन्त्रजप मुखरेषु मणितावसरे, आः
 
१४
 
-
 
तस्याममरावत्यां, इदं वक्ष्यमाणं परमाद्भुतं, उत्प्रेक्षितं संभावितम् । विविधानि
तपांसि कृच्छ्रचान्द्रायणादीनि तेषां प्रबन्धः अविच्छेदः, तत्र निस्तन्द्रा जागरूकाः
तेषां भावस्तत्ता तया । विस्मृतानि अध्यातानि लोकतन्त्राणि लोकव्यापारा
यैस्तेषु, चिरविधृतं यद्ब्रह्मचर्यमुपस्थेन्द्रियनिग्रहः । अथवा अष्टाङ्गमैथुनत्यागः,
तदुक्तं 'स्मरणं कीर्तनं केळि: प्रेक्षणं गुह्यभाषणम् । सङ्कल्पोऽध्यवसायश्च क्रिया-
निर्वृत्तिरेव च । एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्ट-
लक्षणम् ॥' इति । तेन जीर्णतया क्षपितयौवनवयस्कतया, कन्दर्पस्य मन्मथस्य
कालमृत्युषु प्रळयकालमृत्युतुल्येषु । हतकाश्च ते ब्रह्मर्षयश्चेति विशेष णोचरप-
दोऽयं समासः । मारीचनीच इतिवत् हतकशब्द: कुत्सावाची, हतविधिरिति-
यावत्, तथा च कुत्सितब्रह्मर्षिष्वित्यर्थः । भूतलादागत्य अप्सरोभिस्सह क्रीडितु
प्रसक्तेषु उपक्रान्तेषु सत्सु । कर्तरि क्तः । प्राक्तनवासनाया: दुस्त्यजत्वात्त-
द्वशादेव पर्णशालां प्रविशाम इति कथयत्स्वेव केळीगृहं प्रविशत्सु । जटां विस्रंसय
विमोचयेति कथयत्स्वेव वेणीमालम्बमानेषु गृहत्सु सत्सु । वहकलमपनय अप-
सारय, त्यजेति यावत् । इति कथयत्स्वेव कुचदुकूलानि स्तनांशुकानि अपनेतुकामेषु
अपनिनीषत्सु सत्सु । "तुंकाममनसोरपि" इति मकारलोप: । लोहितमस्रं न कुर्यात्
न पातयेदिति नखक्षतानि निषेधत्सु सत्सु । आः खेदे निपातः । अयं वात्स्यायन-
तन्त्रसिद्धः चुम्बनादिर्बन्धादिश्च शिष्टानां वेदविदामसम्मतः पन्थाः अनभिमतो
 
-
 
-
 
1. मयूरव्यंसकादित्वात् समासः इति भावः ।
 
व्यंसको (धूर्त :) मयूर : - मयूरव्यंसकः इतिवत् विशेषणस्य परनिपातः । "विशेषणं
विशेष्येण बहुलम् "
" " नीलोत्पलम्" इतिवन्नेति यावत् ॥