This page has been fully proofread twice.

प्रगल्भैश्चालापैः परिमृदितकर्पूरशिशिरै-
र्द्रवीभूतं जज्ञे सलिलमिव विश्वं मृगदृशः ॥ ४१ ॥
 
दिशि दिशि विकिरन्ती दीर्घदीर्घानपाङ्गान्
करसरसिजघातैः कन्दुकं नर्तयन्ती ।
तटिदिव जलदेभ्यो विच्युता सा सुराणां
सविधमवजगाहे शाम्बरी शम्बरारेः ॥ ४२ ॥
 
भ्रामं भ्रामं करकिसलयं कन्दुके पातयन्ती
स्रस्तं त्रस्तं कुचकलशयोरर्पयन्त्युत्तरीयम् ।
उद्गायन्ती किमपि किमपि स्वैरमुत्कूलरागं
चित्रन्यस्तं कुलमकृत सा दारुणं दानवानाम् ॥ ४३ ॥
 
[commentary]
 
मदनप्रयोज्यरोगः तेन जनितः उत्पादितः यः मोहः अज्ञानं स एव अन्धतिमिरं अन्धतमसमित्यर्थः । तस्य प्रतापः पराक्रमः तेन व्यापन्नानि अतिदुःखितानि त्रीणि जगन्ति त्रिभुवनानि तेषामगदङ्कारा वैद्या इति बिरुदं जयसूचकलक्षणं येषां ते तथाभूतैः । मृगदृशः मोहिन्याः कटाक्षैः परिमृदितं तिरस्कृतं कर्पूरेण शिशिरं शीतलत्वं यैस्ते तथाभूतैः । प्रगल्भैः प्रौढैः, आलापैश्च वचोभिश्चेत्यर्थः । 'इदं विश्वं समस्तं जगत् सलिलमिव द्रवीभूतं जज्ञे अभवदित्यर्थः । अस्या दृग्गोचरीभूय तदालापश्रवणात्सर्वेषां चित्तं दुद्रावेत्यभिप्रायः ॥ दिशीति ॥ दीर्घदीर्घान् अतिदीर्घान्, अपाङ्गान् कटाक्षान् दिशि दिशि सर्वासु दिक्षु विकिरन्ती प्रकिरन्तीत्यर्थः । करसरसिजाभ्यां हस्तारविन्दाभ्यां घाताः ताडनानि तैः । कन्दुकं
नर्तयन्ती क्रीडयन्तीत्यर्थः । जलदा मेघाः तेभ्यः विच्युता स्खलिता तटिद्विद्युदिव स्थिता शम्बरारेर्मदनस्य शाम्बरी मायास्वरूपेत्यर्थः । 'स्यान्माया शाम्बरी' इत्यमरः । सा परदेवता सुराणां देवानां सविधं समीपमपि जगाहे प्रविवेशेत्यर्थः । ॥ भ्राममिति ॥ भ्रामं भ्रामं घूर्णयित्वा घूर्णयित्वेत्यर्थः । करः किसलयमिवेत्युपमितसमासः । कन्दुके पातयन्ती स्थापयन्तीत्यर्थः । स्रस्तं स्रस्तं भ्रष्टमित्यर्थः । उत्तरीयं संव्यानवस्त्रम् । 'संव्यानमुत्तरीयं च' इत्यमरः । कुचकलशयोरर्पयन्ती स्थापयन्ती समर्पयन्तीत्यर्थः । मोहनायैवेति भावः । स्वैरं स्वेच्छं उत्कूलः