This page has been fully proofread twice.

साम्राज्यदेवतामिव तारुण्यस्य, सम्प्रदायवि[^१]द्यामिव मदनागमस्य, कामप्यदृष्टचरीं [‌‍^२]कन्यकामुपलेभिरे ।
 
सायोन्मिषत्कुवलयोदरसोदराणि
सा यत्र यत्र विचकार विलोचनानि
आविर्बभूवुरवशादिव तत्र तत्र
सज्जीकृतैक्षवशरासभुजा मनोजाः ॥ ४० ॥
 
कटाक्षैः कन्दर्पज्वरजनितमोहान्ध[^३]तमस-
प्रतापव्यापन्नत्रिजगदगदङ्कारबिरुदैः ।
 
[commentary]
 
स्थिताम् । सान्द्रीभूतां मेदुरीभूतां सौन्दर्यलक्ष्मीमिव स्थिताम् । तारुण्यं यौवनं तस्य साम्राज्यमाधिपत्यं देवता तदभिमानिदेवतेत्यर्थः । मदनागमः मदनशास्त्रं, तस्य पारम्पर्यं सदाचारो वा सम्प्रदायः तत्परिपालिनी विद्येति शाकपार्थिवादित्वात्समासः । एवञ्च सम्प्रदायपरिपालकश्रीविद्यामिव स्थितामित्यर्थः । 'विद्या स्यात्परदेवता' इति नामसङ्ग्रहमालायाम् । पूर्वं दृष्टा दृष्टचरी न दृष्टचरी तथाभूतां अदृष्टपूर्वामित्यर्थः । 'भूतपूर्वे चरट्' (५.३.५३) इति चरट् । 'टिड्ढाणञ्' (४.१.१५) इत्यादिना ङीप् । कामपि अनिर्वाच्यामेकामित्यर्थः । कन्यकां उपलेभिरे ददृशुरित्यर्थः ॥ सायेति ॥ सा कन्यका मोहिनी यत्र यत्र प्रदेश इत्यर्थः । सायं सायंकाले उन्मिषन्ति विकसितानि यानि कुवलयानि नीलोत्पलानि तेषां उदराणि मध्यानि तैस्सोदराणि सदृशानीत्यर्थः । विलोचनानि नेत्राणि विचकार प्रसारयामासेत्यर्थः । तत्र तत्र देशे मनोज्ञाः सुन्दराः सज्जीकृताः अधिरोपिताः ऐक्षवाः इक्षुविकाराः शरासाः धनूंषि यैस्ते तथाभूताः भुजा येषां ते तथाभूताः । मदना इति शेषः । अवशादित्यस्य अकस्मात् हठादिति वाऽर्थः । आविर्बभूवुरिव उत्पन्ना बभूवुरिवेत्यर्थः । तया आलोकितं सर्वं जगत्कन्दर्पवश्यं भवतीति भावः ॥ कटाक्षैरिति ॥ कन्दर्पज्वरः मदनज्वरः
 
[^१] मदनागमतत्त्वमपि संप्रदायवेद्यमित्युक्त्या सर्वाविद्या संप्रदायाधिगता वीर्यवतीति दर्शयति ।
 
[^२] मोहिनीं परदेवतां च वर्णयन् कविः हरिहरयोरिव लक्ष्मीगौर्योरपि शक्तिरूपेणाभेदमेव तात्त्विकं प्रकटयति ॥
 
[^३] "अवसमन्धेभ्यस्तमसः" (पा.सू. ५.४.७९) अवतमसम्, संतमसम् इत्यत्रेव, अन्धयतीत्यन्धं, पचाद्यच्, अन्धंतम इति कर्मधारयात् अचि समासान्ते, सान्ततमश्शब्दः कारान्तः संजातः ॥