This page has been fully proofread once and needs a second look.

पञ्चमांश्वासः
 
३७३
 
साम्राज्यदेवतामिव तारुण्यस्य, सम्प्रदायवि [^१]द्यामिव मदनागमस्य,
कामप्यदृष्टचरीं '[‌‍^२]कन्यकामुपलेभिरे ।

 
सायोन्मिषत्कुवलयोदरसोदराणि
 

सा यत्र यत्र विचकार विलोचनानि

आविर्बभूवुरवशादिव तत्र तत्र
 

सज्जीकृतैक्षवशरासभुजा मनोजाः ॥ ४० ॥

 
कटाक्षैः कन्दर्पज्वरजनितमोहान्ध' [^३]तमस-

प्रतापव्यापन्न त्रिंत्रिजगदगदङ्कारबिरुदैः ।
 

 
[commentary]
 
स्थिताम् । सान्द्रीभूतां मेदुरीभूतां सौन्दर्यलक्ष्मीमिव स्थिताम् । तारुण्यं यौवनं
तस्य साम्राज्यमाधिपत्यं देवता तदभिमानिदेवतेत्यर्थः । मदनागम:मः मदनशास्त्रं, तस्य
पारम्पर्यं सदाचारो वा सम्प्रदायः तत्परिपालिनी विद्येति शाकपार्थिवादित्वात्समासः
एवञ्च सम्प्रदायपरिपालक श्रीविद्यामिव स्थितामित्यर्थ:थः । 'विद्या स्यात्परदेवता' इति
नामसङ्ग्रहमालायाम् । पूर्वं दृष्टा दृष्टचरी न दृष्टचरी तथाभूतां अदृष्टपूर्वामित्यर्थः ।
'भूतपूर्वे चरट्?' (5-3-53५.३.५३) इति चरट् । 'टिड्ढाणञ्' (4-1-15४.१.१५) इत्यादिना डीङीप् ।
कामपि अनिर्वाच्यामेकामित्यर्थः । कन्यकां उपलेभिरे ददृशुरित्यर्थः ॥ सायेति ॥
सा. कन्यका मोहिनी यत्र यत्र प्रदेश इत्यर्थः । सायं सायंकाले उन्मिषन्ति विक
सितानि यानि कुवलयानि नीलोत्पलानि तेषां उदराणि मध्यानि तैस्सोदराणि सह-
दृशानीत्यर्थः । विलोचनानि नेत्राणि विचकार प्रसारयामासेत्यर्थः । तत्र तत्र देशे
मनोज्ञाः सुन्दरा:राः सज्जीकृता:ताः अधिरोपिता:ताः ऐक्षवा:वाः इक्षुविकारा:राः शरासा:साः धनूंषि
यैस्ते तथाभूताः भुजा येषां ते तथाभूताः । मदना इति शेष:षः । अवशादित्यस्य अक
स्मात् हठादिति वाऽर्थः । आविर्बभूवुरिव उत्पन्ना बभूबुवुरिवेत्यर्थः । तथाया आलोकि
तं सर्वं जगत्कन्दर्पवश्यं भवतीति भावः ॥ कटाक्षैरिति ॥ कन्दर्पज्वर:रः मदनज्वरः
 
1.

 
[^१]
मदनागमतत्त्वमपि संप्रदायवेद्यमित्युक्तथात्या सर्वाविद्या संप्रदायाधिगता वीर्यवतीति दर्शयति ।
2.

 
[^२]
मोहिनीं परदेवतां च वर्णयन् कविः हरिहर योरिव लक्ष्मीगौर्योरपि शक्तिरूपेणा-
भेदमेव तात्त्विकं प्रकटयति ॥
 
3.

 
[^३]
"अवसमन्धेभ्यस्तमस:सः" (पा.सू. 5-4-79५.४.७९) अवतमसम्, संतमसम् इत्यत्रेव,
अन्धयतीत्यन्धं, पचाद्यच्, अन्ध॑धंतम इति कर्मधारयात् अचि समासान्ते, सान्तसम तमश्शब्द-
भा
दः अकारान्तः संजातः ॥
 
ERL
 
.