2023-06-05 16:40:49 by ambuda-bot
This page has not been fully proofread.
पञ्चमांश्वासः
३७३
साम्राज्यदेवतामिव तारुण्यस्य, सम्प्रदायवि द्यामिव मदनागमस्य,
कामप्यदृष्टचरीं 'कन्यकामुपलेभिरे ।
सायोन्मिषत्कुवलयोदरसोदराणि
सा यत्र यत्र विचकार विलोचनानि ।
आविर्बभूवुरवशादिव तत्र तत्र
सज्जीकृतैक्षवशरासभुजा मनोजाः ॥ ४० ॥
कटाक्षैः कन्दर्पज्वरजनितमोहान्ध' तमस-
प्रतापव्यापन्न त्रिंजगदगदङ्कारबिरुदैः ।
स्थिताम् । सान्द्रीभूतां मेदुरीभूतां सौन्दर्यलक्ष्मीमिव स्थिताम् । तारुण्यं यौवनं
तस्य साम्राज्यमाधिपत्यं देवता तदभिमानिदेवतेत्यर्थः । मदनागम: मदनशास्त्र, तस्य
पारम्पर्यं सदाचारो वा सम्प्रदायः तत्परिपालिनी विद्येति शाकपार्थिवादित्वात्समासः।
एवञ्च सम्प्रदायपरिपालक श्रीविद्यामिव स्थितामित्यर्थ: । 'विद्या स्यात्परदेवता' इति
नामसङ्ग्रहमालायाम् । पूर्व दृष्टा दृष्टचरी न दृष्टचरी तथाभूतां अदृष्टपूर्वामित्यर्थः ।
'भूतपूर्वे चरट्? (5-3-53) इति चरट् । 'टिड्ढाणञ्' (4-1-15) इत्यादिना डीप् ।
कामपि अनिर्वाच्यामेकामित्यर्थः । कन्यकां उपलेभिरे ददृशुरित्यर्थः ॥ सायेति ॥
सा. कन्यका मोहिनी यत्र यत्र प्रदेश इत्यर्थः । सायं सायंकाले उन्मिषन्ति विक
सितानि यानि कुवलयानि नीलोत्पलानि तेषां उदराणि मध्यानि तैस्सोदराणि सह-
शानीत्यर्थः । विलोचनानि नेत्राणि विचकार प्रसारयामासेत्यर्थः । तत्र तत्र देशे
मनोज्ञाः सुन्दरा: सज्जीकृता: अधिरोपिता: ऐक्षवा: इक्षुविकारा: शरासा: धनूंषि
यैस्ते तथाभूताः भुजा येषां ते तथाभूताः । मदना इति शेष: । अवशादित्यस्य अक
सस्मात् हठादिति वाऽर्थः । आविर्बभूवुरिव उत्पन्ना बभूबुरिवेत्यर्थः । तथा आलोकित
सर्वं जगत्कन्दर्पवश्यं भवतीति भावः ॥ कटाक्षैरिति ॥ कन्दर्पज्वर: मदनज्वरः
1. मदनागमतत्त्वमपि संप्रदायवेद्यमित्युक्तथा सर्वाविद्या संप्रदायाधिगता वीर्यवतीति दर्शयति ।
2. मोहिनीं परदेवतां च वर्णयन् कविः हरिहर योरिव लक्ष्मीगौर्योरपि शक्तिरूपेणा-
भेदमेव तात्त्विकं प्रकटयति ॥
3. "अवसमन्धेभ्यस्तमस:" (पा.सू. 5-4-79) अवतमसम्, संतमसम् इत्यत्रेव,
अन्धयतीत्यन्ध, पचायच्, अन्ध॑तम इति कर्मधारयात् अचि समासान्ते, सान्तसम शब्द-
भाकारान्तः संजातः ॥
ERL
.