This page has been fully proofread twice.

घातजनितारुण्यकरपल्लवाभ्यर्णपरिभ्रमद्भ्रमरिकानुकारिणा कमलाक्षवलयेन परिभ्रमयन्तीमन्तःकरणान्यपि पश्यताम्, कलमधुरगानामृतद्रवीभूतपर्यन्तमणिकुट्टिमपतन- सम्भावितामार्द्रतां परिहर्तुं कन्दुकस्य चलन्तीमितस्ततोऽपि, चरणतलरणितमञ्जीरशिञ्जानुविद्धेन काञ्चीकलकलेन घोषयन्तीमिव वीरघोषणां कन्दर्पस्य, विद्युतमिव विश्रमितुमागताम्, सालभञ्जिकामिव सञ्चारशालिनीम्, रत्नशलाकिकामिव लब्धजीविकाम्, शारदचन्द्रिकामिव सम्पन्नविग्रहाम्, सौन्दर्यसम्पदमिव सान्द्रीभूताम्,
 
[commentary]
 
कृतः । असकृत्परिश्लथयन्तीं विस्रंसयन्तीं परिवर्धयन्तीमिति वाऽर्थः । प्रतिकलं वर्धमानं कञ्चुके अमान्तं स्तनयुगं दृष्ट्वा मुहुर्मुहुः कञ्चुकग्रन्थिं विस्रस्य कञ्चुकं विशालं कुर्वन्तीति भावः । कन्दुकः गेन्तुकः क्रीडोपयोगिवेष्टितपटगोळकमित्यर्थः । 'गेन्दुकः कन्दुको दीप' इत्यमरः । तस्याघातेन ताडनेन जनितमारुण्यं यस्य स चासौ करपल्लवश्चेति कर्मधारयः । तस्य अभ्यर्णे अन्तिकदेशे परिभ्रमन्त्यः या भ्रमरिकाः भ्रमरस्त्रियः तासामनुकारिणा अनुसारिणा, कटाक्षाणामपाङ्गानां वलनेन घूर्णनेनेत्यर्थः । पश्यतां द्रष्टॄणामन्तःकरणान्यपि परिभ्रमयन्तीं परिभ्रमं नयन्तीमित्यर्थः । मधुरं श्रवणरमणीयं यद्गानामृतं आलापसुधा तेन द्रवीभूताः पर्यन्ते समीपे ये मणिकुट्टिमाः रत्ननिबद्धभूमयः । 'कुट्टिमोऽस्त्री निबद्धा भूः' इत्यमरः । तेषु निपतनेन सम्भावितां ऊहितां, कन्दुकस्य आर्द्रतां क्लिन्नत्वं परिहर्तुं इतस्ततः चलन्तीम् । कन्दुकस्य आर्द्रतायामुत्पतनं न सम्भवतीति भावः । चरणतले पादतले रणितयोश्शब्दायमानयोः मञ्जीरयोः नूपुरयोः शिञ्जा शिञ्जितम् । 'मञ्जीरो नूपुरोऽस्त्रियाम्' इत्यमरः । 'भूषणानां तु शिञ्जितम्' इति च । तथा अनुविद्धः संयुक्तः तथाभूतेन । काञ्ची मेखला तस्याः कलकलः कोलाहलः तेन । 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' 'कोलाहलः कलकलः इति च । कन्दर्पस्य मदनस्य वीर इति घोषणं तत् । 'उच्चैर्घुष्टं तु घोषणम्' इत्यमरः । घोषयन्तीं घोषं कुर्वन्तीमिव स्थितां विश्रमितुं विश्रमं कर्तुमित्यर्थः । आगतां आयातां विद्युतं सौदामनीमिव स्थिताम् । सञ्चारेण शालिनीं शोभमानां तथाभूतां पाञ्चालिकां प्रतिमामिव स्थिताम् । लब्धा प्राप्ता जीविका चेतना यया सा तथाभूता रत्नशलाकिकां माणिक्यशलाकामिव स्थिताम् । सम्पन्नः सम्प्राप्तः विग्रहः शरीरं यया सा तथाभूतां शारदचन्द्रिकां शरत्कालसम्बन्धिज्योत्स्नामिव