This page has been fully proofread once and needs a second look.

नीलकण्ठविजये सव्याख्याने
 
घातजनितारुण्यकर पल्लेवाभ्यर्णपरिभ्रमद्भ्रमरिकानुकारिणा कमलाक्षव-
लयेन परिभ्रमयन्ती मन्तःकरणान्यपि पश्यताम्, कलमधुरगानामृतद्रवी-
भूतपर्यन्तमणिकुट्टिम पतनपतन- सम्भावितामार्द्रतां परिहर्तुं कन्दुकस्य चलन्ती-
मितस्ततोऽपि, चरणतलरणितमञ्जी रशिञ्जानुविद्धेन काञ्चीकलकलेन
घोषयन्तीमिव वीरघोषणां कन्दर्पस्य, विद्युतमिव विश्रमितुमागताम्,
सालभञ्जिकामिव सञ्चारशालिनीम्, रत्नशला किकामिव लब्धजीविकाम्,
शारदचन्द्रिकामिव सम्पन्नविग्रहाम्, सौन्दर्यसम्पदमिव सान्द्रीभूताम्,
 

 
[commentary]
 
कृतः । असकृत्परिश्लथयन्तीं विसंसयन्तीस्रंसयन्तीं परिवर्धयन्तीमिति वाऽर्थः । प्रतिकलं
वर्धमानं कञ्चुके अमान्तं स्तनयुगं दृष्ट्वा मुहुर्मुहुः कञ्चुकग्रन्थि विसथिं विस्रस्य कञ्चुकं
विशालं कुर्वन्तीति भावः । कन्दुक:कः गेन्तुकः क्रीडोपयोगिवेष्टितपटगोळकमित्यर्थः ।
'गेन्दुक:कः कन्दुको दीप' इत्यमरः । तस्याघातेन ताडनेन जनितमारुण्यं
यस्य स चासौ करपल्लवश्चेति कर्मधारयः । तस्य अभ्यर्णे अन्तिकदेशे परिभ्रमन्त्यः
या भ्रमरिकाः भ्रमरस्त्रियः तासामनुकारिणा अनुसारिणा, कटाक्षाणामपाङ्गानां
लनेन घूर्णनेनेत्यर्थः । पश्यतां द्रष्टृटॄणामन्तःकरणान्यपि परिश्भ्रमयन्तीं परिभ्रमं
नयन्तीमित्यर्थः । मधुरं श्रवणरमणीयं यद्गानामृतं आलापसुधा तेन द्रवी-
भूताः पर्यन्ते समीपे ये मणिकुट्टिमामाः रत्ननिबद्धभूमयः । 'कुट्टिमोऽस्त्री
निबद्धा भू:भूः' इत्यमरः । तेषु निपतनेन सम्भावितां ऊहितां, कन्दुकस्य आर्द्रतां
क्लिन्नत्वं परिहर्तुं इतस्ततः चलन्तीम् । कन्दुकस्य आर्द्रतायामुत्पतनं न सम्भवतीति
भावः । चरणतले पादतले रणितयोश्शब्दायमानयोः मञ्जीरयो:योः नूपुरयो:योः शिक्षा
ञ्जा शिञ्जितम् । 'मञ्जीरो नूपुरोऽस्बित्रियाम्' इत्यमरः । 'भूषणानां तु शिज्ञ्जितम्' इति
तथा अनुविद्धः संयुक्तः तथाभूतेन । काञ्ची मेखला तस्याः कलकल:
लः कोलाहल:लः तेन । 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' 'कोलाहल:
लः कलकलः इति च । कन्दर्पस्य मदनस्य वीर इति घोषणं तत् । 'उच्चैर्युघुष्टं तु· घोषणम्'
इत्यमरः । घोषयन्तीं घोषं कुर्वन्तीमिव स्थितां विश्रमितुं विश्रमं कर्तुमित्यर्थः ।
आगतां आयातां विद्युतं सौदामनीमिव स्थिताम् । सञ्चारेण शालिनीं शोभमानां
तथाभूतां पाञ्चालिकां प्रतिमामिव स्थिताम् । लब्धा प्राप्ता जीविका चेतना यया
सा तथाभूता रत्नशलाकिकां माणिक्यशलाकामिव स्थिताम् । सम्पन्नः सम्प्राप्तः
विग्रह:हः शरीरं यया सा तथाभूतां शारदचन्द्रिकां शरत्कालसम्बन्धिज्योत्स्नामिव
 
,'
 
3
 
?
 
y