This page has not been fully proofread.

नीलकण्ठविजये सव्याख्याने
 
घातजनितारुण्यकर पल्लेवाभ्यर्णपरिभ्रमद्भ्रमरिकानुकारिणा कमलाक्षव-
लयेन परिभ्रमयन्ती मन्तःकरणान्यपि पश्यताम्, कलमधुरगानामृतद्रवी-
भूतपर्यन्तमणिकुट्टिम पतनसम्भावितामार्द्रतां परिहर्तुं कन्दुकस्य चलन्ती-
मितस्ततोऽपि, चरणतलरणितमञ्जी रशिञ्जानुविद्धेन काञ्चीकलकलेन
घोषयन्तीमिव वीरघोषणां कन्दर्पस्य, विद्युतमिव विश्रमितुमागताम्,
सालभञ्जिकामिव सञ्चारशालिनीम्, रत्नशला किकामिव लब्धजीविकाम्,
शारदचन्द्रिकामिव सम्पन्नविग्रहाम्, सौन्दर्यसम्पदमिव सान्द्रीभूताम्,
 
कृतः । असकृत्परिश्चयन्तीं विसंसयन्ती परिवर्धयन्तीमिति वाऽर्थः । प्रतिकलं
वर्धमान कञ्चुके अमान्तं स्तनयुगं दृष्ट्वा मुहुर्मुहुः कञ्चुकग्रन्थि विसस्य कञ्चुकं
विशालं कुर्वन्तीति भावः । कन्दुक: गेन्तुकः क्रीडोपयोगिवेष्टितपटगोळकमित्यर्थः ।
'गेन्दुक: कन्दुको दीप' इत्यमरः । तस्याघातेन ताडनेन जनितमारुण्यं
यस्य स चासौ करपल्लवश्चेति कर्मधारयः । तस्य अभ्यर्णे अन्तिकदेशे परिभ्रमन्त्यः
या भ्रमरिकाः भ्रमरस्त्रियः तासामनुकारिणा अनुसारिणा, कटाक्षाणामपाङ्गानां
बलनेन घूर्णनेनेत्यर्थः । पश्यतां द्रष्टृणामन्तःकरणान्यपि परिश्रमयन्तीं परिभ्रमं
नयन्तीमित्यर्थः । मधुरं श्रवणरमणीयं यद्गानामृतं आलापसुधा तेन द्रवी-
भूताः पर्यन्ते समीपे ये मणिकुट्टिमा रत्ननिबद्धभूमयः । 'कुट्टिमोऽस्त्री
निबद्धा भू: इत्यमरः । तेषु निपतनेन सम्भावितां ऊहितां, कन्दुकस्य आर्द्रतां
क्लिन्नत्वं परिहर्तुं इतस्ततः चलन्तीम् । कन्दुकस्य आर्द्रतायामुत्पतनं न सम्भवतीति
भावः । चरणतले पादतले रणितयोश्शब्दायमानयोः मञ्जीरयो: नूपुरयो: शिक्षा
शिञ्जितम् । 'मञ्जीरो नूपुरोऽस्बियाम्' इत्यमरः । 'भूषणानां तु शिज्जितम्' इति
चन तथा अनुविद्धः संयुक्तः तथाभूतेन । काञ्ची मेखला तस्याः कलकल:
कोलाहल: तेन । 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' 'कोलाहल:
कलकलः इति च । कन्दर्पस्य मदनस्य वीर इति घोषणं तत् । 'उचैर्युष्टं तु· घोषणम्'
इत्यमरः । घोषयन्तीं घोषं कुर्वन्तीमिव स्थितां विश्रमितुं विश्रमं कर्तुमित्यर्थः ।
आगतां आयातां विद्यतं सौदामनीमिव स्थिताम् । सञ्चारेण शालिनीं शोभमानां
तथाभूतां पाञ्चालिकां प्रतिमामिव स्थिताम् । लब्धा प्राप्ता जीविका चेतना यया
सा तथाभूता रत्नशलाकिकां माणिक्यशलाकामिव स्थिताम् । सम्पन्नः सम्प्राप्तः
विग्रह: शरीरं यया सा तथाभूतां शारदचन्द्रिकां शरत्कालसम्बन्धिज्योत्स्नामिव
 
,'
 
3
 
?
 
y